Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 115
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir १०६ ] कत्वात् । न चैवं प्रयोगसाधुत्वमात्रमित्युक्त न सङ्गच्छते प्रोक्तान्वयबोधोपपत्तेरेव भावकृतां धात्वर्थोपस्थापकत्वप्रयोजनत्वसम्मवादिति वाच्यं तत्र मात्रार्थस्याविवक्षितत्वात् ॥ ६६ ॥ | तर्कामतम् || ननु “नीलं घटमानय" इत्यादौ द्वितीयाद्वयश्रवणत्कर्मद्वयबोधापत्तिः, न तु विशिष्टस्य कर्मत्वमिति चेन्न अत्र विशेषणविभक्तिः साधुत्वाय। अथवा विशेषण विभक्तेरमेदोऽर्थः। अत्रायं विशेषः-द्वितीयपक्षे वाक्यसमासयोः पर्यायता न घटते वाक्ये "नीलं घटं" इत्यादावभेदस्य पदार्थत्वेन प्रकारत्वान्न संसर्गत्वम् । "नीलघटम्" इत्यादौ कर्मधारये लक्षणाया अस्वीकारेणाभेदस्यापदार्थत्वेन संसर्गत्वात् । तथाच वाक्यसमासयोः पर्यायानुरोधेन षष्ठीसमासे "राजपुरुषः" इत्यादौ षष्ठ्यर्थसम्बन्धे लक्षणा न घटते सम्बन्धस्य संसर्गमर्यादालभ्यत्वात्। वस्तुतस्तु विरुद्धविभक्त्यनवरुद्धस्याभेदबोधकत्वव्युत्पत्ते मुख्यार्थराजाभेदस्य बाधेन राजपदस्य राजसम्बन्धिनि लक्षणा। एवं बहुब्रोही चरमपदस्यान्यपदार्थे लक्षणा। तथाच द्वन्द्वकर्मधारयान्यसमासे सर्वत्र तत्तदर्थे लक्षणा || ६७ ॥ ॥ विवृतिः ॥ ननु "कर्मणि द्वितीया" इत्यनुशासनात् "नीलं घटमानय' इत्यत्र घटपदोत्तर द्वितीययेव नीलपदोत्तरद्वितीययापि कर्मत्वबोधने बाधकाभावाद् द्विधाकर्मत्वभानं स्यादित्याशङ्कते ननु नीलमित्यादि। कर्मद्वयेति । कर्मत्वद्वयेत्यर्थः। तेन कर्मणो धात्वर्थे साक्षात् सम्बन्धेनान्वयायोग्यत्वेऽपि न क्षतिः। न चासावापत्तिरिष्टेति वाच्यं कर्मत्वस्य गुरुतया द्विधा तत् प्रवेशेऽन्वयितावच्छेदक गौरवापत्तेः। कर्मद्वयव्यवच्छेद्य दर्शयति नस्वित्यादि। विशिष्टस्येति । नीलाभिन्नघटस्येत्यर्थः ॥ आशङ्का निरस्यति नेति । निरसन प्रकारमाह अोति। साधुत्वायेति। आकाङ्क्षाविशेषसम्पादकतया पदसाधुत्वाथिकेत्यर्थः। तथाच विशेषणविभक्त निरर्थकत्वासम्भवान्नद्विधाकर्मत्व बोधप्रसङ्ग इति भावः। नन्वन्यशेवात्रापि द्वितीयायाः सार्थकत्वं युक्त निरर्थकत्वकल्पने बीजाभावादत आह अथवेति । अभेद इति तथाच विशिष्टस्यैव कर्मत्वान्नानुपपत्तिरिति भावः । सोऽयममेदो भेदत्वावच्छिन्नाभावो भेदनिष्ठप्रतियोगिताकाभावोऽन्याहशोवेत्यन्यदेतत् ॥ विशेषणविभक्त निरर्थकत्वे वाक्यसमासयोः पयित्वं सम्भवत्युन्नरौवाभेदस्य संसर्गमर्यादया लभ्यत्वात्, अभेदार्थकत्वे तु नैवमितीममर्थ सयुक्तिकं प्रदर्शयितुमाह अत्रायं विशेष इति । For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127