Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 113
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ १०४ ] ॥ विवृतिः ॥ तुमुल्प्रत्ययार्थं निरूपयति इच्छाबानिति । तस्य चाभेदेन सन्निहितक्रियाश्रये धम्मिण्यन्वयः। तुमुलन्तप्रयोगे शाब्दबोधप्रकारं दर्शयितुमाह भोक्तुमित्यादि । अच्छायां भोजनस्य कर्मत्वसम्बन्धेनान्वयो बोध्यः। नन्विच्छावतस्तुमुलार्थत्वे यत्र तुमुलन्तोत्तरमिच्छार्थकधातोः प्रयोगस्तत्रे च्छाद्वयभानादनुपपत्तिरित्याशङ्का परिहर्तुमाह-भोक्तुभिच्छतोत्यादि। कर्तरीति । स्वप्रकृतिभूतधात्वर्थकर्तरीत्यर्थः । पटवसितशाब्दबोधमपन्यस्यति भोजनकर्तारमिति। ननु भोजनकरात्मनः सिद्वत्वेनेच्छाविषयत्ववाधात् कथमिच्छाकर्मत्वं सङ्गच्छत इत्यत आह "सविशेषणेहि" इति न्यायादिति । “सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रामतः सति विशेष्ये वाधे" इति न्यायादित्यर्थः। तथा च तत्र तद्वाधे ऽपि कर्त्त निष्ठविशेष्यतानिरूपितविशेषणताश्रये कृतौ तत् सत्त्वेन तदन्वय इत्याह विशेषणेकृतावित्यादि ॥६५।। ॥तर्कामतम् ॥ प्रकृतधात्वर्थकर्ता शतृशानचोः, धात्वर्यजन्यफलवान् कर्मशानचोऽर्थः। शत्रादीनां कर्ता वाच्यः। सविषयकप्रकृतिकानामाश्रयत्वे लक्षणा। एवं कर्त्त कर्मकृतां तेन तेन रूपेण कर्ता कर्म च वाच्यम् । भावकृतान्तु नङ धञ्चादीनां प्रयोगसाधुत्वमात्र धात्वर्थातिरिक्तस्य भावकृताऽनुपस्थापनात् ॥६६॥ ॥ विवतिः॥ शतृशानचोरथं निरूपयति प्रकृतधात्वर्थकर्तेति ; प्रकृतिभूतस्य धातोः प्रतिपाद्यो योऽस्तित्कर्तेत्यर्थः। शतृशानचोरिति । यद्यप्युक्तप्रत्ययद्वयत्वावच्छेदेन धात्वर्थकर्त्तत्वार्थकत्वं न सम्भवति कर्मशानचः क्रियाजन्यफलबदर्थकत्वादिति द्वयोः सहाभिधानमसङ्गतं तथापि शतृप्रत्ययस्य कर्तरिवाच्य एव विहितत्वात्तत्सहचरितस्य शानचोऽपिकर्तरिविहितस्यैव तदर्थकत्वं बोध्यम् । अतएवाग्रे “कर्मशानचः" इति वक्ष्यति। कर्त्त शतृशानचोरिति वा पाठः। तथा च "पचन्तं चैत्र पश्यति" इत्यत्र व "पचमानं चैत्र पश्यति" इत्यत्रापि वर्तमानपाकानुकुलकृतिमन्तं चैत्र पश्यतीत्यन्वयबोधः। एतयोरतिदिष्ठलट्त्वात् स्वातन्त्र्येण वत्त मानत्वबोधकत्वाद्वा वर्तमानत्वमप्यन्यबोधे भासते। कर्तरि शानचोऽर्थमभिधाकर्मणि तस्यार्थमभिधत्ते धात्वर्थजन्येति । स्वप्रकृतिभूतधात्वर्थजन्येत्यर्थः। तथा च "पच्यमानमोदनमीक्षते" इत्यत्र पचनजन्यफलशालिनमोदनमोक्षत इत्यन्वयबोधः। वस्तुतस्तु विक्लित्तिमन्तमोदनमीक्षत इत्येव तत्रान्वयबोधो जन्यान्तस्य परिचायकतगैवोपपत्तेः For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127