Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 109
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ १०० ] आह सन्नुत्तरेत्यादि। तथाचाख्यातलक्ष्यार्ये आश्रयत्वे सनर्थस्यान्वयसम्भवान्नानुपपत्तिरितिभावः। आख्यातस्याश्रयत्वलक्षकत्वं दृष्टान्तेन द्रढयितुमाह सविषयकार्थकप्रकृतिकेति । तथाच सविषयकार्थकज्ञादिधातोः प्रकृतित्वे यथाख्यातस्याश्रयत्वे लक्षणा तथाऽत्रापि । सविषयकार्थकसनः प्रकृतित्वादिति भावः। ननु "भवति" इत्यादौ भ्वादिधातोरिव "पिपक्षति" इत्यादावपि पचादिधातोरेव तिङ प्रकृतित्वं युक्त, नतु सनः, तस्य तिङ प्रकृतित्वेऽनुशासनाभावात् प्रत्ययत्वाच्च । तथाच दृष्टान्तदान्तिकभावो न सङ्गच्छत इति चेन्न "ते धातवः” इत्याद्यनुशासनेन सनादिप्रत्ययान्तस्य पुनर्धातुसंज्ञाबिधानात् “पिपक्षति" इत्यादौ "पिपक्ष" भागस्य धातुत्वोपगमेनाख्यातप्रकृतित्वस्य तिङश्च सविषयकार्थकप्रकृतिकत्वस्य च सम्भवात् । इत्थञ्च सनादोनां धात्वंशप्रत्ययत्वप्रवादोऽप्युपपद्यते। क्ल तन्वादिति । तत्राख्यातशक्यार्थप्रवेशे कारकविभक्तेः क्रियायामेव स्वार्थबोधकत्वनियमाद् घटविषयकज्ञानपर्यन्तस्य लब्धार्थस्याख्यातशक्यकतावन्वयासम्भवः स्यादतो लक्षणाश्रयणीयेति भावः । नच तत्राप्यनुकूलत्वसंसर्गेन ज्ञानान्तस्य कृताबन्वययुपगम्य घटविषयकज्ञानानु - कूलकृतिमानित्यन्वयबोध उपपादनीय इति वाच्यं आत्ममनोयोगादिघटितसामग्रीत एव ज्ञानोत्पत्तेः कृतेर्ज्ञानानुकूलत्वबिरहात्। ज्ञानाश्रयत्वेनैवकृतकृत्यातायां कृति. पर्यन्तानुधाबने गौरवाच्च । “पिपक्षिषति" इत्यादि प्रयोगस्तु “सनन्तानसनिष्यते" इत्याद्यनुशासनेन बारणीय इति संक्षेपः ॥ ६२ ।। || तर्कामृतम् ॥ यङोऽर्थः पौनःपुन्यम् । तत्त्वञ्च इदानीन्तनप्रकृत्यर्थसजातीयक्रियान्तरध्वंसकालीनत्वे सति वर्तमानादिकृतिविषयत्वम् । “पापच्यते" इत्यादौ तादृशकालीनत्वमेव यङा प्रत्याय्यते । आख्यातस्य चरमदलवाचकत्वान्न विशिष्टवाचकत्वं यङः। तदानीन्तनत्वञ्च स्थ लकालमादाय ॥ ६३ ॥ ॥ विवृतिः ॥ यङोऽर्थ निरूपयति यङोऽर्थ इति। तत्त्वमिति। पौनःपुन्यत्वमित्यर्थः । इदानीन्तनेति । अत्र क्रियान्तरत्वं न यथाश्रुतं, तथासतीदानी द्विः पक्तरि “पापच्यते" इतिप्रयोगापत्तेः किन्तु कियोत्तरत्वविशिष्टक्रियात्वरूपम् , तथाच प्रकृत्यर्थसजातीयपूर्वदिवसीयपाकोत्तरत्वविशिष्टपाकध्वंसस्येदानीन्तनसकृत्पक्तर्यपि सत्त्वात् "पापच्यते" इति प्रयोगापत्तिरतस्तद्वारणायेदानीन्तनत्वं प्रथमक्रियाया विशेषणम्, नतु प्रकृत्यर्थस्य, अव्यावर्तकतापत्तेः, तच्च प्रयोगाधिकरणीभूतकालवृत्तित्वरूपम् । For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127