Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ ६८ ] भावस्य, तृतीय कृतिसाध्येष्टसाधनत्वाभावक्ष्य च बाधात्। वस्तुतस्तु "धनं दद्या. स्त्वमस्मभ्यम्" इत्यादिप्रयोगात् प्रार्थनादिकमपि विधिलिङर्थ इत्यन्यत्र वित्तरः।
भट्टाचार्य्यमते तु वाक्यं त्रिविधं विधिनिषेधार्थवादभेदात् । तत्र "स्वर्गकामोऽश्वमेधेन यजेत" इत्यादिभावविधौ विधिलिङर्थस्य धात्वर्थेऽन्वयः। "आरोग्यकामः कुपथ्यं नाश्नीयात्" इत्याद्यभावविधौ च तस्य धात्वर्यान्वितनबर्थेऽन्वयः। तेन तत्र कुपथ्याशनाभाव इष्टसाधनमित्यन्वयवोधः सम्पद्यते। निषेधवाक्येतु "न कलजें भक्षयेत्" "रात्रौ श्राद्ध न कुर्वीत" "परदारान्न गच्छेत्" इत्यादौ विध्यर्थान्वित. नअर्थस्य धात्वर्थेऽन्वय उपगन्तव्यः। तत्र तदेव निषेधवाक्यं यत्कत निविशेषेण प्रयुक्तमुपयुज्यते, अभावविधिवाक्यन्तु न तथेत्यनयोर्भेद इत्यवधे यम् ।
अत्रान्वयवोधस्वरूपमुपदर्शयितुं विधिलिङन्त प्रयोगमुपन्यस्यति स्वर्ग काम इति । पर्यवसितान्वयवोध प्रदर्शयति कृतिसाध्येत्यादि। यागकतेति । यागानुकूलकृतिमानित्यर्थः। तत्र यागो धात्वर्थः, अनुकूलत्वं संसर्गः, कृतिराख्यातार्थः। न च देवतोद्देशेन द्रव्यत्यागरुपयागस्येच्छाविशेषात्मकत्वात् कृतिसाध्यत्वाभावेनोक्तान्वयवोधो न सम्भवतीति वाच्यं यागानुकूलहविः सम्पादनादिरुपव्यापारस्य कृतिसाध्यत्वात् कृतेः परम्परया यागानुकूलत्वसम्भवात् ।
यद्यपि “अल्पस्वरतरं तत्र पूर्वम्" इत्यनुशसनाल्लोटशब्दस्य पूर्वनिपातो युक्त स्तथापि लिङ त्वेन प्रथमोपस्थितत्वादुक्तानुशासनस्यासार्वत्रिकत्वाच्चाशीलिङ शब्दस्य पूर्व निर्देशः । वक्त्रिच्छाविषयत्वमिति । तथा च "चैत्रो दीर्घायु भूयात्' इत्यत्र मदिच्छाविषयदीर्वायुवनाश्रयश्चैत्र इत्यन्वयबोधः । __ 'लोङतप्रयोगे शब्दबोधस्वरुपं दर्शयितुमवतारयति घटमानयेति । यद्यपि कत्रिष्ठत्वे सति वक्त्रनुमतत्वरुपानुज्ञायां "चैत्रः पचतु" वक्त नुमतत्वे सति कत्र निष्ट जनकत्वरुपाज्ञायां "शूलं प्रविश" इत्यादिप्रयोगदर्शनात् पृथक् पृथगेव लोड़ों वाच्य स्तथापि तेषामर्थानामनुगमकमात्रयुक्तं वक्त्रिच्छा विषयत्वमिति । वस्तुतस्तु भावितायामाशीलिंडः, तस्यां वत्त मानतायाञ्चलोटः, आशंसने च द्वयोरर्थत्वमुपेयमेव । तदुक्तं "आशीलिङाशंसनस्य भावित्वस्य च बोधिका" इति "चैत्रोक्ताज्जीवतु भवानिति वाक्याच्चैत्राशंसाविषयवर्तमानजीवनवानित्येवं बोधः" इति च । अतएवाऽनुशासनमपि “भविष्यति भविष्यन्त्याशीः श्वस्तन्यः" पञ्चम्यनुमतावित्यत्र "कत्तुमिच्छतोऽनुज्ञानुमतिः, साच वर्तमानभविष्य द्विषयैव" "समर्थनाशिषोश्च" इत्यादिकम् । भट्टाचार्यास्तु "चैत्रो गच्छतु" इत्यादौ प्रवृत्त्युत्पादस्यावश्यम्भावाल्लोटो विध्यर्थकत्वं वाच्यं, विधिश्च प्रवर्तकज्ञानविषयो धर्मः कृति साध्यत्वादित प्राहुः।
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127