SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ६८ ] भावस्य, तृतीय कृतिसाध्येष्टसाधनत्वाभावक्ष्य च बाधात्। वस्तुतस्तु "धनं दद्या. स्त्वमस्मभ्यम्" इत्यादिप्रयोगात् प्रार्थनादिकमपि विधिलिङर्थ इत्यन्यत्र वित्तरः। भट्टाचार्य्यमते तु वाक्यं त्रिविधं विधिनिषेधार्थवादभेदात् । तत्र "स्वर्गकामोऽश्वमेधेन यजेत" इत्यादिभावविधौ विधिलिङर्थस्य धात्वर्थेऽन्वयः। "आरोग्यकामः कुपथ्यं नाश्नीयात्" इत्याद्यभावविधौ च तस्य धात्वर्यान्वितनबर्थेऽन्वयः। तेन तत्र कुपथ्याशनाभाव इष्टसाधनमित्यन्वयवोधः सम्पद्यते। निषेधवाक्येतु "न कलजें भक्षयेत्" "रात्रौ श्राद्ध न कुर्वीत" "परदारान्न गच्छेत्" इत्यादौ विध्यर्थान्वित. नअर्थस्य धात्वर्थेऽन्वय उपगन्तव्यः। तत्र तदेव निषेधवाक्यं यत्कत निविशेषेण प्रयुक्तमुपयुज्यते, अभावविधिवाक्यन्तु न तथेत्यनयोर्भेद इत्यवधे यम् । अत्रान्वयवोधस्वरूपमुपदर्शयितुं विधिलिङन्त प्रयोगमुपन्यस्यति स्वर्ग काम इति । पर्यवसितान्वयवोध प्रदर्शयति कृतिसाध्येत्यादि। यागकतेति । यागानुकूलकृतिमानित्यर्थः। तत्र यागो धात्वर्थः, अनुकूलत्वं संसर्गः, कृतिराख्यातार्थः। न च देवतोद्देशेन द्रव्यत्यागरुपयागस्येच्छाविशेषात्मकत्वात् कृतिसाध्यत्वाभावेनोक्तान्वयवोधो न सम्भवतीति वाच्यं यागानुकूलहविः सम्पादनादिरुपव्यापारस्य कृतिसाध्यत्वात् कृतेः परम्परया यागानुकूलत्वसम्भवात् । यद्यपि “अल्पस्वरतरं तत्र पूर्वम्" इत्यनुशसनाल्लोटशब्दस्य पूर्वनिपातो युक्त स्तथापि लिङ त्वेन प्रथमोपस्थितत्वादुक्तानुशासनस्यासार्वत्रिकत्वाच्चाशीलिङ शब्दस्य पूर्व निर्देशः । वक्त्रिच्छाविषयत्वमिति । तथा च "चैत्रो दीर्घायु भूयात्' इत्यत्र मदिच्छाविषयदीर्वायुवनाश्रयश्चैत्र इत्यन्वयबोधः । __ 'लोङतप्रयोगे शब्दबोधस्वरुपं दर्शयितुमवतारयति घटमानयेति । यद्यपि कत्रिष्ठत्वे सति वक्त्रनुमतत्वरुपानुज्ञायां "चैत्रः पचतु" वक्त नुमतत्वे सति कत्र निष्ट जनकत्वरुपाज्ञायां "शूलं प्रविश" इत्यादिप्रयोगदर्शनात् पृथक् पृथगेव लोड़ों वाच्य स्तथापि तेषामर्थानामनुगमकमात्रयुक्तं वक्त्रिच्छा विषयत्वमिति । वस्तुतस्तु भावितायामाशीलिंडः, तस्यां वत्त मानतायाञ्चलोटः, आशंसने च द्वयोरर्थत्वमुपेयमेव । तदुक्तं "आशीलिङाशंसनस्य भावित्वस्य च बोधिका" इति "चैत्रोक्ताज्जीवतु भवानिति वाक्याच्चैत्राशंसाविषयवर्तमानजीवनवानित्येवं बोधः" इति च । अतएवाऽनुशासनमपि “भविष्यति भविष्यन्त्याशीः श्वस्तन्यः" पञ्चम्यनुमतावित्यत्र "कत्तुमिच्छतोऽनुज्ञानुमतिः, साच वर्तमानभविष्य द्विषयैव" "समर्थनाशिषोश्च" इत्यादिकम् । भट्टाचार्यास्तु "चैत्रो गच्छतु" इत्यादौ प्रवृत्त्युत्पादस्यावश्यम्भावाल्लोटो विध्यर्थकत्वं वाच्यं, विधिश्च प्रवर्तकज्ञानविषयो धर्मः कृति साध्यत्वादित प्राहुः। For Private And Personal Use Only For Private And Personal Use Only
SR No.020809
Book TitleTarkamrutam
Original Sutra AuthorN/A
AuthorJagdish Tarkalankar, Jivankrishna Tarktirth
PublisherAsiatic Society
Publication Year1974
Total Pages127
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy