SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ६७ ] लङर्य निरूपयति लङ इति। अनद्यतनत्वमिति पूर्ववदर्शकम् । तन्मात्रस्य भविष्यत्यपि सत्त्वादाहातीतत्वमिति पूर्ववदर्थकम् । तन्मात्रस्याद्यतनातीतेऽपि सत्त्वादुक्तमनद्यतनत्वमिति। एवञ्च "अगच्छत्" इत्यादी अनद्यतनविद्यमानध्वंसप्रतियोग्युत्पत्तिकगमनानुकूलकृतिमानित्याद्यन्वयवोधः। विधिलिङोऽर्थं निरूपयति विधिलिङ इति । सुमेरुशृङ्गारोहणादेविधेयत्व. वारणाय सत्यन्तम् । परदाराभिगमनादेविधोयत्ववारणाय बलवदनिष्टाजनकेति । बहुतरवित्तव्ययकायक्लेशादिरुपानिष्ट जनकस्यापि यागादेविधेयत्वाद्बलवत्त्वमनिष्टविशेषणम् । तच्च क्रियाजन्येष्टापेक्षयाधिकत्वेनगृहीतत्वम् । अतएव कामोपहतचेता नरकादौ सुखापेक्षयाधिकत्वमप्रतिसन्धाय परदाराभिगमने प्रवर्तते । अजनकान्तस्य निष्फलजलताड़नादौ सत्त्वात्तत्र विधेयत्वं वारयितुमाहेष्टसाधनत्वमिति । तत्रष्टत्वं तावत् समभिव्याहृतवाक्योपस्थापितकामनाविषयत्वं स्वर्गौदनादिवैदिकलौकिकनानाफलानुगमकम् । अतस्तत्तद्रूपेण तत्तत्फलानां विधिलिङ: शक्यतावच्छेदककोटावप्रवेशान्न शक्तयानन्त्यप्रसङ्गः। यत्र च कामनावाचकं पदं न श्रू यते तत्र तदध्याहार्य्यम् । ततः 'अहरहः सन्ध्यामुपासीत' इत्यादिनित्यविधावपि नानुपपत्तिः सन्ध्यामुपक्रम्याभिहिते ‘सन्ध्यासुपासते ये तु नियतं संशितव्रताः। विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम्' ॥ 'क्षयं केचिदुपात्तस्य दुरितस्य प्रचक्षते। अनुत्पत्ति तथाचान्ये प्रत्यवायस्य मन्वते ॥ इत्यादौ नानाफलश्रवणात् । एवञ्च विधिलिङ तस्तादृशार्थोपस्थितौ सत्यां तस्याश्च प्रवृत्ति प्रतिहेतुत्वात् ततो यागादौ प्रवृत्तिरुत्पद्यत इति "यजेत" इत्यादिविधेः प्रवर्तकत्वमिति भावः। वस्तुतस्तु तादृशविशिष्टज्ञानस्य प्रवृत्ति प्रति हेतुत्वे मानाभावाद्विधेः प्रवर्तकत्वानुरोधेन प्रवृत्तिमन्तर्भाव्य पृथक्कार्यकारणभावकल्पने गौरवाद्विशेष्यविशेषणभावे विनिगमनाविरहेण शक्तिबाहुल्यप्रसङ्गात् "श्येनेनाभिचरन् यजेत" इत्यादिविधेरप्रामाण्यापत्त श्च विशिष्टस्यं विध्यर्थत्वं न युक्त किन्तु कृतिसाध्यत्वादित्रितयस्य स्वातन्त्र्येनैव। नचोक्तत्रितयभन्तर्भाव्य कार्यकारणभावत्रयकल्पनस्यावश्यकत्वात् पुनर्गौरवमिति वाच्यं त्रयाणां क्वचित् कस्यचिद्विध्यर्थतया भानस्यानुभवसिद्धत्वेन गौरवस्य फलमुखतयाऽदोषत्वात् । न च कृतिसाध्यत्वादित्रयाणां विध्यर्थत्वे मानाभाव इति वाच्यं "पंगुगिरि न तरेत्" "तृप्तिकामो जलं न ताड़येत्” “न कलज भक्षयेत्" इत्यादिषु "गिरितरणं पंगुकृतिसाध्यत्वाभाववत्" जलताड़नं तृप्तिकामेष्टसाधनत्वाभाववत्" "कलजभक्षणं बलवदनिष्टाजनकत्वाभाववत्" इत्याद्यन्वयबोधानामुत्पादानुभवस्यैव. मानत्वात् । ना तेषु प्रयोगेषु विशिष्टस्य विध्यर्थत्वं सम्भवति तत्र प्रथमे बलवदनिष्टाजनकेष्टसाधनत्वाभावस्य, द्वितोये कृतिसाध्यत्वविशिष्टबलवदनिष्टाजनकत्वा. For Private And Personal Use Only For Private And Personal Use Only
SR No.020809
Book TitleTarkamrutam
Original Sutra AuthorN/A
AuthorJagdish Tarkalankar, Jivankrishna Tarktirth
PublisherAsiatic Society
Publication Year1974
Total Pages127
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy