SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ] लकारार्थविचारमुपसंहर्तुमवष्ठिस्य लुङोऽथ निरूपयति व्याप्यक्रिययेति । क्रिया-धात्वर्थः। लङोऽर्थ इति । तथा च काष्ठञ्चेदप्राप्स्यदोदनमप्यपक्ष्यच्चौत्र इत्यत्रौदनकर्मकपाकक्रियाया व्याप्यत्वात् काष्ठकर्मकप्राप्तिक्रियायाश्च व्यापकत्वापत्तः फलीभूतोऽतीतकालावच्छेदेनौदनपाकाभाव प्रयोजककाष्ठप्राप्त्यभाववांश्चैत्र इत्यन्वयवोधः । वस्तुतस्त्वतीतादिकालावच्छेदेन क्रियातिपात एव लुडोऽर्थः। अतएव तन्त्रान्तरे लुङः क्रियातिपत्तिशब्दाभिलाप्यमपि सङ्गच्छते। क्रियातिपातश्च क्रियाबिरहप्रयोजकक्रियान्तरविरहरूपः क्रियाविरहप्रयुक्तक्रियान्तरविरहरूपो वा न तु सामान्यतः क्रियाप्रतियोगिकाभावरूपोऽतीतकालावच्छेदेन काष्ठप्राप्त्यभाववानोदनपाकाभाववांश्चेति समूहालम्वनं विनोक्तस्थलेऽन्वयबोधस्योपपादयितुमशक्यत्वेन गौरवप्रसङ्गात्। एवञ्चोक्तस्थलेऽतीतकालावच्छेदेन काष्ठप्राप्त्यभावप्रयुक्तौदनपाकाभाववांश्चैत्र इत्यव्यन्वयबोध इति बोध्यम् । लुडो नियमतो नातीतत्वादिबोधकत्वमति प्रसङ्गादत आह तात्पर्य्यवशादिति। काष्ठञ्चेदप्राप्यदित्यादि प्रयोगमभिप्रेत्याह भूतत्वमिति । सुवृष्टिश्चेदभविष्यत् तदा सुभिक्षमप्यभविष्यदित्यादिप्रयोगाभिप्रायेणाह भविष्यत्त्वमिति। तत्र चापत्तेः फलीभूतोऽन्वयबोधस्तु भाविकालावच्छिन्नसुभिक्षभवनाभावप्रयोजकः सुवृष्टिभवनाभाव इत्याद्याकारकः। केचित्तु लङः प्रयोगेऽभावभानमनुपगम्योक्तस्थले काष्ठप्राप्तिनिष्ठापादकतानिरूपितापाद्यतावदुत्पत्त्याश्रयोदनपाक इत्यन्वबोधः, एवभन्यत्रापोति वदन्ति। तच्चिन्त्यम् ॥ ६१॥ ॥ तर्कामृतम् ॥ सनः कर्तुरिच्छा अर्थः। सन्नुत्तराख्यातस्याश्रयत्वे लक्षणा, सविषयकार्थकप्रकृतिकाख्यातस्याश्रयत्वे लक्षणाया "घटं जानाति” इत्यादौ क्ल प्तत्वात् ॥ ६२ ॥ ॥विवृतिः॥ अथ धात्वंशप्रत्ययानामन्निरूपयितुमभ्यहितत्वादादौ सनोऽर्थं निरूपयति सन इति । इच्छति नैककत कात्त मन्तधातोविहितस्य सन इत्यर्थः। 'गुप्तिक्किद्भ्यः सन्' इत्यादिना विहितस्य स्वार्थिकसन इच्छार्थकत्वविरहेऽपि न क्षतिः। कर्तुरिच्छेति । अत्र क पदं धात्वर्थेनेच्छाया एककर्त्तकत्वज्ञापनार्थं नतु कर्त्तत्वस्य सनर्थघटकत्वार्थं वैयर्यात् । तथा चेच्छ व सनोऽर्थः, तस्याञ्च विषयित्वसमानकर्तकत्वोभयसम्बन्धेन धात्वर्थस्यान्वयः। एवञ्च “पिपक्षति चैत्रः" इत्यादौ स्वसमानकर्त्त कपाकविषयकेच्छाश्रयश्चैत्र इत्याद्यन्वयबोधः। नन्वाख्यातार्थस्य कृतेरभानात् सनर्थेच्छाया स्तस्यामन्वयासम्भवेन कृते र्भानासम्भवाञ्चोक्तान्वयबोधोऽनुपपन्न इत्यत For Private And Personal Use Only For Private And Personal Use Only
SR No.020809
Book TitleTarkamrutam
Original Sutra AuthorN/A
AuthorJagdish Tarkalankar, Jivankrishna Tarktirth
PublisherAsiatic Society
Publication Year1974
Total Pages127
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy