Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 105
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ६६ ] पद-लुडूभ्यामेकमेव 'श्वस्तनत्वं बोध्यते सम्भेदे नान्यतरवेद्य मिति न्यायादतो न द्विधाश्वस्तनत्वभानप्रसङ्गः। ____ भविष्यदर्थकलकारं निरूप्यातीतत्वार्थकलकारनिरूपणमारभते लुडोऽर्थ इति । उत्पत्तिभूतत्वञ्चेति । भूतत्वमात्रस्यार्थत्वे महानसे वह्निसंयोगस्य विद्यमानतादशायां "वहिमहानसेन सह समयुजत्" इति प्रयोगो न स्यादत उक्तमुत्पत्तिरिति । तन्मात्रस्यार्थत्वे तु प्रथमक्षणे "घटोऽभूत्" इति प्रयोगोपत्ते राह भूतत्वमिति । उत्पत्तिराधक्षणसम्बन्धः, अतीतत्वञ्च विद्यभानध्वंसप्रतियोगित्वम्, तदुभयोरेकक्रियायां विरुद्धत्वादाहोत्पत्तावन्वेतीति । पर्यवसितार्थमाह विद्यमानेत्यादि । विद्यमानस्य ध्वंसस्य प्रतियोगिनी उत्पत्ति यस्य तत्त्वमित्यर्थः। एवञ्चागमदित्यादौ विद्यमानध्वंसप्रतियोग्युत्पत्तिकगमनानुकूलकृतिमानित्यन्वयबोधः । एवञ्च संयोगसत्त्वदशायामपि संयोगोत्पत्तिध्वंसस्य सत्त्वात् ‘समयुजत्' इति प्रयोग उपपद्यते । वस्तुतो लुङोऽतीतत्वमात्रमर्थः। अतीतत्वञ्च वर्तमानध्वंसप्रतियोगित्वरूपं वर्तमानध्वंसरूपम्बा स्वरूपसम्बन्धेन प्रतियोगित्वसम्बन्ध न व्याख्यातार्थे कृतावन्वेति । तथा च "अगमत्" इत्यादौ वर्तमानध्वंसप्रतियोगिगमनानुकूलकृतिमानित्याद्यन्वय बोधः । यत्र चाख्यातार्थो न कृति स्तत्र"वह्निर्माहानसेन सह समयुजत्" इत्यादौ तु संयोगसत्त्वदशायां कस्यचित् संयोगस्य ध्वंसस्तत्प्रतियोगित्वंवाऽतीतत्वं धात्वर्थे एवान्वेतीत्यभ्युपेयत इति दिक् । लिङर्थं निरूपयति लिट इति। अनद्यतनत्वमिति। अस्यार्थस्तु पूर्वमुक्तः । अनद्यतनत्वस्य ह्यस्तनेऽपि सत्त्वादाह परोक्षत्वमिति । वक्तृसाक्षात्काराविषयत्वमित्यर्थः। तेन ह्यस्तनस्यापि धात्वर्थस्य वक्तृसाक्षात्कारविषयत्वे न लिटः प्रयोगः । अनद्यतनत्वे सति परोक्षत्वस्य गभिण्याः पुत्रभवनादौ सत्त्वाद् 'गभिण्याः पुत्रो भविष्यति' इत्यादौ 'गर्भिण्याः पुत्रो वभूव' इति लिट: प्रयोगवारणार्थमुक्तमतीतत्वमिति । तदर्थस्तु पूर्ववद्बोध्यः। संयोगसत्त्वदशायामपि “संयुयुजे" इत्यादि प्रयोगोपपत्तये चकारेणोत्पत्तिरनुकृष्यते । तेन तदन्वयः पूर्ववदुत्पत्ताविति सङ्गच्छते। तत्र तदन्वय इत्यस्यातीतत्वस्यान्वय इत्यर्थः। तथा च "कसं जधान" इत्यादी अनद्यतन-वक्तृसाक्षातकाराविषय-वर्तमानध्वंसप्रतियोग्युत्पत्तिककंसकर्मकहननानुकुलकृतिमानित्याद्यन्वयबोधः पर्यवसन्नः। नचानद्यतनत्वस्य परोक्षत्वविशिष्टातीतत्वव्यापकत्वात् पृथग्लिङर्थत्वमनुपादेयमेवेति शङ्कय, अद्यतनस्याप्यतीतस्य कार्यान्तरव्यासक्तचिन्ततया परोक्षत्वसम्भवात् । अनद्यतनत्वपरोक्षत्वातीतत्वसत्त्वेऽपि "अभून्नृपो विवुधसखः परन्तपः” “अध्यास्त सर्वत्त सुखामयोध्याम्" इत्यादिप्रयोगस्य लिङन्तत्वाभावः परोक्षत्वाविवक्षया समाधेयः। For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127