Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 104
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ६५ ] विधिलिङऽर्थः कृतिसाध्यत्वे सति बलवदनिष्टाजनकेष्टसाधनत्वम् । “स्वर्गकामो यजेत” इत्यादी कृतिसाध्यबलवदनिष्टाजनकेष्टसाधनयागकर्त्ता स्वर्गकाम इत्यर्थः। आशीर्लिङ लोटोरर्थो वक्ति च्छाविषयत्वम् । तेन " घटमानय" इत्यत्र घटकर्मकमदिच्छाविषयानयना कूलकृतिमान् त्वमित्यन्वयबोधः । व्याप्यक्रियया व्यापकक्रियाया आपादनं लृङोऽर्थः । तात्पर्य्यवशात् क्वचिद्भूतत्वं क्वचिद् भविष्यत्त्वञ्च लृङाबोध्यते ।। ६१ ।। ॥ विवृतिः ॥ लकारस्य दशविधत्वाद्वर्त्तमानत्वार्थ कलड़न्तप्रयोगेऽन्वयवोधप्रकारमुपवर्ण्यवत - मानत्ववटित-भूतत्व भविष्यत्त्वयोर्मध्ये प्रागभाववटितत्वेनाभ्यर्हितभविष्यत्त्वार्थकलकारांन्त प्रयोगेऽन्वयबोधस्वरूपं सन्दर्शयितुमाह भविष्यत्त्वं लृटोऽर्थ इति । तत्त्वेति । अत्र तच्छब्देन भविष्यत्त्वं परामृश्यते । विद्यमानप्रागभावेत्यादि । विद्यमानस्य प्रागभावस्य प्रतियोगिनी उत्पत्तिर्यस्य तत्त्वमित्यर्थः । तत्र विनष्टप्रागभावप्रतियोग्युत्पत्तिकवर्त्त' मानघटादिविशेष्यकभविष्यतीति प्रयोगवारणाय विद्यमानेति प्रागभावविशेषणम् । विद्यमानाभावप्रतियोग्युत्पत्तिकालीनघटादि विशेष्य भविष्यतीति प्रयोगवारणाय प्रागभावेति । कार्य्यस्य प्रथमक्षणे उत्पत्तिः द्वितीयक्षणे आत्मलाभ इति प्राचीनमते प्रथमक्षणे भविष्यतीति प्रयोग वारणायोत्पत्तिप्रवेशः । अन्वयवोधस्वरूपमाह विद्यमानेति । अत्राप्यनुकूलत्वस्य संसर्गमय्र्यादा लभ्यत्वं बोध्यम् । तथाचानद्य अथ लुङर्थ निरूपयितुमाह लुटोऽर्थ इति । अनद्यतनत्वमपीति । अनद्यतनत्वमद्यतनभिन्नत्वम् । अद्यतनत्वञ्चातीतोत्तररात्रिमध्यवर्त्य हस्त्वम् । दुर्गमते त्वतीतरात्रिचतुर्थयामावध्यागामिरात्रिप्रथमयामपर्य्यन्तकालत्वमद्यतनत्वम् । तनत्वस्य भूतकालेऽपि सत्त्वादपिना भविष्यत्वं समुच्चीयते । भविष्यत्त्वस्याद्यतन द्वितीयक्षणादावपि सत्त्वादनद्यतनत्व प्रवेशः । एवञ्चानद्यतनत्वे सति भविष्यत्वं लुङ इति भावः । अन्येतु 'अद्यतनी क्रिया' इत्यादि दर्शनादद्यतनत्वं न कालधर्म्मः किन्तु क्रियान्वयीति वदन्तोऽद्यतनत्वं प्रकृतशब्दप्रयोगाधिकरणदिनवृत्तित्वं तदभावश्चानद्यतनत्वं क्रियायामेवान्वेतीत्याहुः । वस्तुतस्त्वनद्यतनत्वविशिष्टभविष्यत्त्वापेक्षया लाघवेन श्वस्तनत्वमेव लुड़र्थोवाच्यः । तदुक्तं " धात्वर्थे श्वस्तनत्वस्यबोधिका तिङ लुङ ुच्यते" इति । श्वस्तनत्वञ्चाव्यवहितोत्तरा हस्त्वरूपं व्यवहितोत्तरदिनादौ लृट एव प्रयोगस्य साधुत्वादिति ध्येयम् । तथाच "पुत्र स्ते भविता" इत्यादी अव्यवहितोत्तर दिनवृत्तिभवनाश्रयः पुत्र इत्यन्वयबोधः । " श्वः पक्ता" इत्यादौतु श्वः For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127