Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
[ ६३ ]
कर्त्तरि व्यापारस्य वाध स्तत्र " चैत्रो भयं करोति, निद्रां करोति, स्थितिं करोति". इत्यादावाख्यातस्याश्रयत्वे लक्षणावाच्येत्याशयेनादिपदम् । लक्षणेति । निरूढलक्षणेत्यर्थः । नव्यास्तु " रथो गच्छति" इत्यादौ गमनाश्रयतावान् रथ इति बोधोपगमादाख्यातस्याश्रयत्वलक्षणयैवोपपत्तौ न व्यापारे लक्षणा युत्तेति प्राहुः । मीमांसकास्त्वाख्यातस्य व्यापारत्वेनेव कृतौ शत्तिः " गच्छति, पचति" इत्यादौ व्यापारत्वेनैव कृतिबोधस्यानुभवसिद्धत्वात् । न च कृतित्वस्य प्रवृत्तिनिमित्तत्वे लाघवमिति वाच्यं लघुधर्म्मपुरष्कारेण शक्तेः सविवादत्वे लाघवस्याकिञ्चित्करत्वादिति वदन्ति । रथो गच्छतीत्यत्र समुदितवाक्यार्थ बोधस्वरूपं प्रदर्शयति गमनजनकेति । अत्रापि जनकत्वाद्युपस्थितिः पूर्व्ववद्बोध्या ।
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
ननु "कर्म्मणि द्वितीया" इत्यनुशासनाद्देवदत्तो ग्रामं गच्छतीत्यादौ द्वितीयायाः कर्म्म त्वोपस्थापकत्वं युज्यते, यत्र च नपुंसकात् स्यमोर्लोपः" इत्याद्यनुशासनेन द्वितीया लुप्यते तत्रानुपपत्तिरतस्तत्परिहर्तुमाह दधि पश्यतीत्यादाविति । दधि कर्म्मत्वमिति । दधिशब्दस्य दधिकर्मकत्वावच्छिन्ने लक्षणेतिभावः । अत्र च क्रियाविशेषणस्थल sa प्रातिपदिकार्थस्य धात्वर्थेऽन्वयो बोध्य इति ध्येयम् । आदिना "वारि पिवति" इत्यादेः परिग्रहः । ननु " द्वयेकयोद्दि वचनैकवचने वहुषु बहुवचनम्" इत्याद्यनुशासनादेकवचनत्वादिनैकत्वाद्यर्थकत्वं वाच्यं एवञ्चाख्यातैकवचनस्याप्येकत्वार्थकत्वमायातं, तञ्चाप्रयोजनकं कर्त्ताद्य कत्वस्य सुवेकवचनेनैव निर्व्वाहादत आह एकवचनाद्यपस्थित -- मित्यादि । अत्रादिपदाभ्यां द्विवचनद्वित्वाद्योरुपग्रहः । वस्तुतस्त्वत्रादिपदद्वयमनतिप्रयोजनकमेव " घटः पटश्च स्तः" "घटः पटो मठश्च सन्ति” इत्यादि प्रयोगानुरोधादाख्यातद्विवचनबहुवचनयोद्दि वत्वबहुत्वार्थकतायाः स्वीकरणीयत्वात् । प्रथमादिपदमित्यादि । आदिना द्वितीयादेः परिग्रहः । तथाचैकवचनमात्रस्य नैकत्वार्थकत्वं किन्तु प्रथमाद्येकवचनस्यैवेति भावः । एवञ्चाख्यातैकवचनस्य प्रथमाद्य कवचनत्वाभावान्नैकत्वार्थकत्वं परन्तु “सि” “अम्" इत्यादेरेव तथात्वात्तदर्थ कत्वमिति तात्पर्य्यमबधेयम् ।। ५८ ।।
A
॥ तर्कामृतम् ॥
देवदत्तेन गम्यते ग्रामः" इत्यस्य देवदत्तवृत्तिकृतिजन्यगमनजन्यफलशाली ग्राम इत्यर्थः । वृत्तित्वं संसर्गबललभ्यं । तृतीयार्थश्चकृतिः । जन्यत्वं संसर्गः । गमन धात्वर्थः । जन्यत्वं संसर्गः । फलं कर्म्मात्मने पदार्थ: । शालित्वं संसर्गः ॥ ५६ ॥
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127