Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ १ ]
छत्रपदस्य छत्र्यछत्रिषु लक्षणेति भावः । तथा च शक्यलक्ष्योभयवृत्तिधर्म्म पुरष्कारेणान्वयबोधजनिका लक्षणाऽजहत्स्वार्थ लक्षणा, तदाश्रयीभुतं पदमजहत्स्वार्थ लक्षकमिति भावः । आदिना काकेभ्यो दधि रक्ष्यतामित्यादेरुपग्रहः । पटादिपदस्य arat शक्यवृत्तिधर्म्म पुरष्कारेणाप्य जहत्स्वार्थलक्षणा क्वचित् भवतीतिबोध्यम्
॥ ५७ ॥
॥ तर्कामतम् ॥
अथ शाब्दबोधप्रक्रिया - "देवदत्तो ग्रामं गच्छति" इत्यत्र ग्रामकर्मकगमनजनक कृतिमानित्यन्वयबोधः । द्वितीयाया अर्थः कर्मत्वं धातोर्गमनं, जनकत्वं संसर्गमर्यादालभ्यं न कृतिमान् लदो वर्त्तमानत्वं, आख्यातस्य कृतिः, तत् संसर्गः संसर्गमय्र्यादालभ्यः । यत्र कर्त्तरिकृते वधस्तत्र आख्यातस्य व्यापारादौ लक्षणा, यथा " रथो गच्छति" इत्यत्र गमन जनकवर्त्तमानव्यापारवान् रथः । " दधि पश्यति" इत्यादौ द्वितीयालोपस्थले दधिशब्द एवा हत्स्वार्थ लक्षणया दधिकर्मत्वं बोधयति । एकवचनाद्य ुपस्थितमेकत्वादि सर्व्वत्र प्रथमादिपदमुपस्थापयति ।। ५८ ।।
॥ विवृत्तिः ॥
शाब्दबोधोत्पादप्रकियां निरूपयितुमाह अथशाब्देत्यादि । यद्यपि घटपटादिशब्दजन्यबोधप्रक्रिया प्रदर्शनेनापि शाब्दबोधप्रक्रिया प्रदर्शनं निर्व्वहति तथापि कियाकारकादिविचित्र पदसमभिव्याहारस्थले कीदृशी शाब्दबोधप्रणालीत्याकाङक्षायामाह देवदत्त इत्यादि । इदमुपलक्षणं " गच्छति ग्रामं देवदत्तः" इत्यादावपि योजनया वक्ष्यमाणाकारान्वयबोधोत्पादात् । पर्य्यवसितशाब्दबोधस्वरूपमाह ग्रामकर्म्म - केत्यादि । ग्रामकर्मकत्वं ग्रामनिष्ठकर्म्म तानिरूपकत्वं, तत्रकर्मत्वं नाम क्रियाजन्यफलशालित्वम् । वस्तुतः फलत्वमेव कर्म्मत्वं क्रियाया धातुना जन्यत्वस्य च संसर्गमय्र्यादयालाभसम्भवात् ।
प्रोक्तशाब्दबोधे येन पदेन यस्यार्थस्योपस्थितिस्तन्निद्दिशति द्वितीयाया अर्थ इत्यादि । कत्वमिति । "कर्म्मणि द्वितोया" इत्यनुशासनादिति भावः । धातोरिति । अर्थ इति पूर्वेणान्वेति । एवमग्रेऽपि । अन्विताभिधानवादिभि
मांस गुरुभिरन्वयप्रतियोगिपदार्थयोः संसर्गेऽपि शक्तैः स्वीकारादाह संसर्ग - मर्यादालभ्यमिति । आकाङक्षाभास्यमित्यर्थः । आकाङक्षा चाव्यवहितपूर्व्वत्वादिना संसर्गेण तत्पदविशिष्टतत्पदत्वरूपा । अत्र गमेस्तिपासार्द्धमाकाङक्षा जनकत्वरूपसंसर्ग भासिकेति भावः । एवमन्यत्रापि ।
च
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127