Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ ६० ] शक्त्या च पद्ममुपस्थाप्यते। ततश्चपङ्कजपदात् पङ्कजनिकत्तृ पद्मभित्यन्वयबोधोजायत इत्याशयेनाह पङ्कजनिकर्तृत्वेनेत्यादि। __ यौगिकरूढ़मुदाहरति चतुर्थं यथेति। यादृशानुपूर्व्यवच्छिन्नं स्वातन्त्रयेण यौगिकार्थप्रतिपादकत्वे सति रूढ्यर्थप्रतिपादकं तादृशानुपूर्वीमच्छब्दत्वं तन्नदर्थे यौगिकरूढ़त्वम् । योगरूढस्यापियुगपद्यौगिकार्थप्रतिपादकत्वविशिष्टरूढार्थप्रतिपादकत्वात् स्वातन्त्र्येणेति । उद्भिदादिपदमिति। आदिना मण्डपादिपदस्य परिग्रहः। पङ्कजादिपदं युगपदवयवसमुदायशक्तिभ्यां पङ्कजनिकर्त्त पद्ममित्यन्वयबोधं जनयति न तु योगार्थ विना रूढ्यर्थस्य नवा रूढ्यर्थ बिनायोगार्थस्य बोधं जनयति किन्तूद्भिदादिपदं यदावयवसमुदायशक्त्यादेरेकतरेणार्थ बोधयति न तदापरतरेणेति योगरूढस्थले योगार्थाविनाभूतो रूच्यर्थः यौगिकरुढस्थले तु तद्विनाभूत इति विशेष इत्याशयेनाद यौगिकं तरुगुल्मादेरित्यादि ॥ ५६ ॥
तर्कामृतम् ॥ लक्षणा द्विविधा, जहत्स्वार्थाऽजहतस्वार्था च । आद्या यथा गङ्गायां घोष इत्यादौ। द्वितीया यथा सर्व छत्रिणो यान्तोत्यादौ। अत्र छत्रिण स्तदितरस्यापि गमनान्वयः ॥१७॥
॥ विवृतिः ॥ लक्षकपदभेदमभिधा तुलक्षणां विभजते लक्षणा द्विविधेति । तथा च लक्षणाद्वै . विध्याल्लक्षकपदमपि द्विविधमितिभावः। यद्यपि शब्दशक्तिप्रकाशिकायां "जहत्स्वार्थाऽजहुत्स्वार्था निरूढाधुनिकादिकाः। लक्षणा विविधा स्ताभिलक्षकं स्यादनेकधा" इत्यभिहितं तथापि निरूढादिषु जहत्स्वार्थत्वस्य सत्त्वादत्र द्विविधेत्युक्तमित्यविरोधः ।
जहत्स्वार्थेति । जहत्-शाब्दबोधं त्यजत्, स्वार्थ-स्वाश्रयशक्यं, यस्या इति ; जहाति-अपैति, स्वार्थो यस्यां सा इति वा वहुव्रीहिः। एवमजहत्स्वार्थे त्यत्रापि । जहत्स्वार्थामदाहरत्याद्या यथेति । गङ्गायां घोष इत्यादाविति । अत्र गङ्गापदस्य तीरत्वेन रूपेण लक्षणेत्यर्थः। तथा च शक्यावृत्तिधर्मावच्छिन्नलक्षणा जहत्स्वार्थलक्षणा, तदाश्रयोभुतं पदं जहत्स्वार्थलक्षकमितिभावः। आदिना मञ्चाः क्रोशन्तीत्यादेः परिग्रहः।
अजहत्स्वार्थामुदाहरति द्वितीया यथेति। सर्वे छत्रिणो यान्तीत्यादि । यत्र छत्रधारिभिः सार्द्ध छत्ररहिता अपि गच्छन्ति तत्र सर्वे छत्रिणो गच्छन्तीति प्रयुक्त
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127