Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 97
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir धर्मपुरष्कारेणाभिधानस्य तदतिरिक्तसंख्यावच्छिन्नव्यवच्छेदार्थकताया व्युत्पत्तिसिद्धित्वात्। शक्ति निरूपयितुमाह शक्तिर्घटादीत्यादि। अत्र षष्ठ्यर्थः प्रतियोगित्वं, सप्तम्यर्थस्त्वनुयोगित्वं, तयोश्च निरूपकत्वसम्बन्धेनात्वयः। तथाच घटादिपदनिष्टप्रतियोगितानिरूपकत्वे सति घटाद्यर्थनिष्ठानुयोगितानिरूपकः 'घटादिपदाद्घटादिर्बोद्धव्यः' इत्याकारकभगवत्सङ्केतः शक्तिरित्यर्थः पर्यवसितः। वस्तुतस्त्वत्र सङ्केताकारप्रदर्शनं नाभिमतमन्यथा पदानुयोगिकसङ्केताप्रदर्शनान्न्यूनतापत्तेः किन्तु घटादिपदस्यशक्यप्रदर्शनेन जातिशक्तिवादं निरसितं तथोक्तमिति ध्येयम् । लक्षणां निरूपयितुमाद लक्षणेत्यादि । सा च शक्यसम्बन्धरूपा। सम्बन्धश्चानेकविधस्तत्रतत्रोहनीयः। अन्वयानुपपत्तलक्षणावोजत्वं प्रदर्शयितुमवतारयति यथा गङ्गायामित्यादि। अन्वयानुपपत्त्येति । इदमुपलक्षणं 'षष्ठीः प्रवेशय' इत्यादावन्वयानुपपत्तिविरहेऽपि तात्पर्यानुपपत्तलक्षणाकल्पकत्वं बोध्यम् । तया वृत्त्येति । लक्षणाख्यवृत्त्येत्यर्थः। लक्षणाया वृत्तित्वानभ्युपगमे गङ्गापदस्य तोरेऽसङ्केतित्त्वातोरानुपस्थितौ तीरे घोष इत्यन्वयवोधो न स्यादिति भावः। इत्थञ्च शक्तिस्थले घटाद्यन्वयबोधजनकघटाद्यर्थोपस्थितौ घटादिपदत्वावच्छिन्नविशेष्यतानिरूपितघटादि. शक्तत्वप्रकारताशालिसङ्कतग्रहस्येव लक्षणास्थले तीराद्यन्वयबोधजनकतीराद्यर्थोपस्थितौ गङ्गादिपदत्वावच्छिन्नविशेष्यतानिरूपिततोरादिसम्बन्धिशक्तत्वप्रकारताशालिलक्षणाग्रहस्य कारणत्वमिति बोध्यम् । मीमांसकास्तु 'अग्निर्माणवकः' इत्यत्राग्निशब्दान्भुख्यया वृत्त्या प्रतिपादितस्य दहनरूपार्थस्य माणवकशब्दप्रतिपाद्ये न नवोपनीतविप्रवालकेन सार्द्ध मन्वयासम्भवाद् गौण्यारव्यवृत्त्यन्तरमङ्गीकार्यम् । तथा च तया वृत्त्याग्निशब्देनाग्निसदृशरूपार्थोपस्थापनान्नान्वयबोधानुपपत्तिरित्याहुः। तन्मतं निराक माह गौणीत्यादि । लक्षणयैवेति । तथा चाग्निशब्दस्याग्निसादृश्यावच्छिन्ने लक्षणा स्वीकारेऽवश्यकप्तलक्षणयैवोपपत्तौ न वृत्त्यन्तरकल्पनगौरवमितिभावः। अग्न्यादीत्यादिना गवादिपरिग्रहः। सादृश्यमिति । विजातीयकान्तिमत्त्वादिनेतिभावः। तथा च तत्राग्निसदृशो माणवको गोसदृशो बाहीक इत्यन्वयबोधः समुपपन्नः ॥ ५५ ॥ ॥ तर्कामृतम् ॥ शक्त पदं चतुविधम् । यौगिकं, रूढं, योगारूढ़ यौगिकरूढञ्च। आद्यं यथापाचकादिपदं योगार्थे पाककर्त्तरि शक्तम् । द्वितीयं यथा विप्रादिपदं रूढ्या ब्राह्मणवाचकम् । तृतीयं यथा पङ्कजादिपदं योगरूढ्या पङ्कजनिकर्ता त्वेन पद्मत्वेन च पद्म For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127