Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 95
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ८६ ] न्वयबोधजनकतावच्छेदकष्व्यन्तराजपदविशिष्टपुरुषपदत्वरूपानुपूर्वीसत्त्वाद्राजसम्बन्धिपुरुषविषयकान्वयबोधः स्यादितिभावः । तदुपादानेतु 'राज्ञः' इति पदेन 'पुत्रः' इति पदेन सार्द्ध मन्वयं लभमानेन राजसम्बन्धिपुत्रविषयकान्वयबोधस्य जनितत्वादजनितान्व. यबोधकत्वाभावान्न तादृशान्वयबोध इतिभावः। न चैवमवान्तरवाक्यार्थ बोधोत्तरं. महावाक्यार्थबोधो न स्यादजनितान्वयबोधकत्वाभावादितिवाच्यं तद्विशेष्यकतत्प्रकारकान्वययोधं प्रति तत्समानाकारान्वयबोधावावस्य कारणताया विवक्षितत्वात् । अोदं चिन्त्यते-अयमेतीत्यदावजनितान्वयबोधदशायां राजपदस्य पुरुषपदेन सार्द्धमप्या. काङक्षायाः सत्त्वाद्राज्ञःपुरुष इत्यन्वयबोधापत्तेरिणाय तात्पर्यज्ञानस्योपयोगः कल्पनीयः किञ्च राज्ञःपुत्र इतिजनितान्वयबोधदशायामपि राजपदस्य पुरुषपदेन साद्ध तात्पपर्य्य विरहादेवान्वयबोधो मास्तु किमजनितात्वयबोधकत्वप्रवेशेन । __ तत्र योग्यतां निरूपयति बाधकप्रमाविरह इति । पयसा सिञ्चतीत्यादौ प्रमात्मकशक्तिज्ञानादेः सत्त्वाव्यभिचारवारणाय वाधकेति । तौवभूमात्मकनिश्चयस्य सम्भवाद्वयभिचारवारणाय प्रमेति । तथाच तद्विशेष्यकतत्प्रकारान्वत्वयवोधं प्रति तद्विशेष्यकतदभावनिश्चयाभावः कारणमित्यर्थः । वह्निना सिञ्चतीत्यत्र सेकविशेष्यकबह्निकरणकत्वाभावप्रकारकप्रमात्मकवाधकनिश्चयसत्त्वान्न शाब्दबोध इति भावः । तत्रासत्ति निरूपयति अव्यवधानेनेत्यादि। गिरिभुक्तमित्यादावन्वयप्रतियोगिनो गिरिवह्निमत्पदार्थयोभुक्तदेवदत्तपदार्थयोश्चोपस्थितिसत्त्वादासत्तिः स्यादत उक्तमव्यवधानेनेति । अन्तराऽनन्वयिपदार्थोपस्थितिं विनेत्यर्थः। तथाचाव्यवहितत्वसंसर्गेणान्वयस्य तत्प्रतियोग्युपस्थितिविशिष्टापरप्रतियोग्युपस्थितिरासत्तिरितिभावः। गिरि(क्तमित्यादौ गिरिवह्निमान्भुक्तं देवदत्तेनेति नान्वयबोधो गिरिवह्निमत्पदार्थो. पस्थित्योर्मध्येऽनन्वयिभुक्तपदार्थोपस्थितेर्भुक्तदेवदत्तपदार्थोपस्थित्योर्मध्येऽनन्वयिवह्निमत्पदार्थोपस्थितेश्च सत्त्वादव्यवधानेन तादृशपदार्थोपस्थितिविरहात् । अत्र तादृशोपस्थित्योः पदजन्यत्वं विवक्षणीयम् । तेन यत्र द्वारपदात्तदर्थोपस्थितेरनन्तरं मानान्तरेणपिधानोपस्थितिस्तत्रान्वयप्रतियोगिनोरव्यवधानेनीपस्थितिसत्त्वेऽपि नान्वयबोधः। नन्वेवं 'दृष्टातु पाण्डवानीकं व्यूढ़ दुर्योधनस्तदा। आचार्य्यमुपसङ्गम्य राजा वचनमब्रवोत्' ॥ इत्यादौ दुर्योधनराजादिपदयोरासत्त्यभावच्छाब्दबोधो न स्यादिति चेन्न तत्रानायत्या योजितवाक्यादेवान्वयबोधोपगमादितिध्येयम् । गिरिभुक्तमित्यादावाकाङक्षाविरहादेव शब्दानुत्पादोपपत्तेः सम्भवेऽपि .स्वतन्त्रान्वयव्यतिरेकाभ्यामासन्निधियः कारणत्वमिति नव्याः। एवमयोग्यस्थले आकाङक्षाया निराकाङक्षास्थले च योग्यताया अभावात् आकाङक्षायोग्यतयोः शब्दहेतुत्वस्य खण्डनं न सम्भवति स्वतन्त्रान्वयव्यतिरकाभ्यां तयोः कारणतायाः सिद्धत्वादिति बोध्यम् । For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127