Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ ८ ]
वाचकम् । चतुर्थं यथा - उद्भिदादिपदं यौगिकं तरुगुल्मादेः रूढ़ यागविशेषस्य वाचकम् ॥ ५६ ॥
| ॥ विवृत्तिः ॥
एवं शक्तौ लक्षणायाञ्च वृत्तौ निरूपितायां शक्तयार्थबोधकं शक्तं लक्षणयार्थ - बोधकं लाक्षणिकमितिपदद्वै विध्यं पर्यवसितम् । तत्र शक्तं विभजते शक्तं पदं चतुविधमिति । यद्यपि शब्दशक्तिप्रकाशिकायां रूढ़ञ्च लक्षकञ्चैव योगरूढञ्च यौगिकम् । तच्चतुर्द्धा' इत्यत्र स्वयमेव यौगिकरूढत्वेन विभागो नाभिहितस्तथापि तत्र 'अपरै रूड़यौगिकं मन्यतेऽधिकम्' इत्यनेनाभिहितस्य रूढयौगिकस्यैवात्र यौगिकरूढत्वेन प्रवेशादविरोधः ।
तत्र योगिक मुदारहति आद्यं यथेति । यादृशानुपूर्व्यवच्छिन्नं स्वघटकपदमात्रोपस्थाप्ययादृशार्थ विषयकशाब्दबोधजनकताया विषयविधयावच्छेदकं तादृशानु पूर्वीमच्छन्दत्वं तादृशाथे यौगिकत्वम् । पाचकादिपदमिति । अत्र समुदायघटकपदद्वयं - पच्धातुव्वु ण्प्रत्ययश्च । तत्र धातुना पाकः प्रत्ययेण च कर्त्त त्वमुपस्थाप्यते न तु समुदायेन कोऽप्यर्थ: । ततश्च पाककर्त्त त्वावच्छिन्नार्थे पाचकपदं यौगिक मित्याशयेनाह योगार्थ इत्यादि । तत्रादिना पाठकादिपदोपग्रहः ।
रूढमुदाहरति द्वितीयं यथेति । यादृशानुपूर्व्यवच्छिन्नं यादृशार्थोपस्थापकसक - तीयविशेष्यताविशिष्टं योगरूढादिभिन्नत्वे सति तादृशानुपूर्वी मच्छन्दत्वं तादृशार्थे रूढत्वम् । तथाच सङ्केतशून्यपाचकादिपदेषु योगरूढादिपङ्कजादिपदेषु च नातिव्याप्तिः । विप्रादीत्यादिना घटपटादिपदोपग्रहः । अत्र विप्रपदभुपनीतं विद्वांसं ब्राह्मणं बोधयित्विति सङ्केतसत्त्वादवयवार्थ विरहाच्च रूढत्वमुपपद्यते । रूढेति । समुदायशक्तो त्यर्थः । ब्राह्मणवाचकमिति । उपनीतविद्वद्ब्राह्मणवाचकमित्यर्थः । तथाच स्मृतिः 'जन्मना ब्राह्मणो ज्ञ ेयः संस्काराद् द्विज उच्यते । विद्यया याति विप्रत्वं श्रोत्रियस्त्रिभिरेव हि ॥ इति ।
योगरूढमुदाहरति तृतीयं यथेति । यादृशानुपूर्व्यवच्छिन्नं स्वघटकशब्दोपस्थाप्ययादृशार्थावच्छिन्नस्बोपस्थाप्ययादृशार्थान्वयबोधजनकताया विषयविधयावच्छेदकं तादृशानुपूर्व्वमच्छब्दत्वं तादृशार्थावच्छिन्नतादृशार्थे योगरूढत्वम् । पङ्कजादिपदमिति । आदिना कृष्णसर्पादिपदस्योपग्रहः । केवलयोगादरे शैवालादौ केवलरूढ्यादरे च स्थलपद्मादावतिव्याप्तिः स्यादत आह योगरूठ्ये ति । अवयवशक्त्या समुदायशक्त्या - चेत्यर्थः । अत्र द्वाaarat पङ्कशब्दो उप्रत्ययान्तो जन्धातुश्च । तत्राद्यावयवेन फ्ङ्कस्यान्त्यावयवेन च जनिकर्त्त त्वस्योपस्थापनादवयवशक्त्या पङ्कजनिकर्त्त त्वं समुदाय -
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127