Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 101
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ २ ] लट्त्वाख्यातत्वयोः समानाधिकरणत्वेऽप्यसमनियतत्वाल्लट्त्वेन वर्तमानत्वस्याख्यातत्वेन च कृतेरुपस्थापकत्वमित्युपस्थितिजनकतावच्छेदकं विशिनष्टि लट इत्यादि। वर्तमानत्वमिति। "वर्तमाने लट्" इत्यनुशासनादिति शेषः। वर्तमानत्वञ्च तत्तच्छब्दप्रयोगाधिकरणकालत्वरुपम् । तदवच्छिन्नस्य चाधेयताविशेषसम्बन्धेन कृतावन्वयः । न च कालत्वस्याखण्डस्य पचनादिपूर्वोत्तरकालेऽपि सात्त्वात्तत्रतत्र पचतीत्यादिप्रयोगापत्तिरिति वाच्यं कालत्वव्याप्यधर्मेणारम्भतः परिसमाप्तिपर्यन्तस्थायि तत्तत्स्थलकालस्योपादेयत्वात् ।। ___ आख्यातस्य कृतिरिति । कृतेरुपस्थापनादेव प्रथमान्तपदोपस्थाप्ये देवदत्तादौ विशेषणतया तदन्वयेन कृतिविशिष्टस्य कर्तुर्बोधोपपत्तेरिति भावः । अतएव गच्छतीत्यादौ गमनं करोतीत्यादि यत्नार्थककरीतिना साख्याते विवरणं सङ्गच्छते। तत्सम्बन्ध इति । समवायस्यावच्छेदकत्वाख्यस्वरूपसम्वन्धस्य वात्र सम्बन्धत्वं बोध्यम् । तच्च देवदत्तादिशब्दस्यात्मवाचित्वे शरीरवाचित्वे वा यथायथं योज्यम् । न च व्यापारसत्त्व एव किं करोतीति प्रश्नोदयात् कृत्रो व्यापारार्थकत्वं वाच्यं, एवञ्चाख्यातस्यापि ब्यापारार्थत्वमस्तु तथैवं करोतिना सर्वख्याते विवरणस्योपपत्तेरिति वाच्यं चैत्रीयजलसेकादिरूपव्यापारस्य घट इवाङ्करेऽप्यविशिष्टत्वाद् घटश्चैत्रेण कृतोऽङ्करस्तु न कृत इति विषयविभागानुपपत्तेः कृनो व्यापारार्थकत्वकल्पनाऽसम्भवात्कृतित्वजातेराख्यातशक्यतावच्छेदकत्वे व्या. पारत्वापेक्षया लाघवाच्च । अत्र कृतित्वं पुनरिष्टसाधनताधीजन्यतावच्छेदकप्रवृत्तित्वरूपं बोध्यम् । तेनेश्वरकृतेर्जन्यमात्र प्रतिहेतुत्वेऽपि "ईश्वरः पचति" इत्यादयो न प्रयोगाः। नन्वेवं “ईश्वरो वेदं वक्ति" "कृष्णो मथुरायां विहरति" इत्यादि प्रयोगानुपपत्तिरिति चेन्न तत्राख्यातस्य व्यापारे लक्षणाया अभ्युपगन्तव्यत्वात् । ____ इदन्तु बोध्यं—“देवदत्ती ग्रामं गच्छति" इत्यादी सुतिङ घटितसप्तषव्यन्यतमत्वस्य तत्तद्धर्माणां वा गुरुतयैकत्वशक्ततानवच्छ दकत्वान्न तिङश्वैत्रादावेकत्वानुभावकत्वं किन्तु "चैत्रो मैत्रश्च गच्छतः" "चैत्रो मैत्रो देवदत्तश्च गच्छन्ति' इत्यादिप्रयोगदर्शनादाख्यातद्विवचनवहुवचनयोः संख्या वाचकत्वमावश्यकममेवेति । यत्तु वैयाकरणैः "चैत्रः पचति" इत्यादौ "पाककर्ता चैत्रः" इत्यादिविवरणदर्शनादाख्यातस्य कत्र्तवार्थ इत्युक्त। तन्न। प्रातिपदिकार्थाख्यातार्थयोरभेदान्वयस्याव्युत्पन्नत्वाच्छक्यतावच्छेदकगौरवापत्तेश्च । आख्यातस्य कृतिवाचकत्वे "रथो गच्छति" इत्यादावचेतनरथादौ कृत्यभावात् प्रसक्तामनुपपत्ति परिहर्तुमाह यत्र कर्तरि कृतेरिति । व्यापारादाविति । धात्वर्थानुकूलव्यापारादावित्यर्थः। यत्र For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127