Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ ६४ ]
॥ विवृतिः ॥ कर्तरि वाच्ये शाब्दबोधप्रकारं दर्शयितुमाह देवदत्तेनेति । पय्यवसितशाब्दबोधमुपवर्णयति देवदत्तवृत्तीत्यादि । संसर्गबललभ्यमिति। आकाङ्क्षाभास्यमित्यर्थः । एवमुत्तरत्रापि । तृतीयार्थश्च कृतिरिति । “कत करणयो स्तृतोया” इत्यनुशासनादिति भावः। “कर्तरि रुचादि ङानुवन्धेभ्यः" इत्यनेन कर्तरि "आत्मनेपदानिभाव कम्मणोः" इत्यनेन च भावे आत्मनेपदस्स्य विहितत्वेऽपि कत्त ख्यिाते फलस्य द्वितीयार्थत्वाद् भावे फलविरहाच्चाह फलं कर्मात्मनेपदार्थ इति । फलन्तु संयोगो विभागश्च । तत्र “गम्यते' इत्यादो संयोगः "त्यज्यते" इत्यादो च विभागः फलत्वेन भासत इति बोध्यम् । शालित्वमिति । आश्रयत्वमित्यर्थः ॥ ५६ ॥
|| तर्कामृतम् ॥ भावप्रत्यये तु "देवदत्तेन सुप्यते' इत्यस्य देवदत्तवृत्तिकृतिजन्यः स्वाप इत्यर्थः भावप्रत्ययस्थले फलाभावादात्मने पदार्थो न भासते || ६० ॥
॥ विवृतिः ॥
अथ भावे वाच्ये शाब्दबोधप्रकारं वर्णयितुमाह भावप्रत्यय इति । धात्वर्थ मात्र विशेष्यविधयावगाहमानायां प्रतीतावित्यर्थः। शाब्दबोधस्वरूप दर्शयति देवदत्तवृत्तीत्यादि। अत्रापि वृत्तित्वजन्यत्वे संसर्ग मर्यादालभ्ये, कृतित्तु तृतीयार्थ इति बोध्यम् । ननु गम्यते इत्यत्रोव सुप्यते इत्यत्राप्यात्मनेपदार्थो न कथं भासत इत्याशङ्कां निराकत माह भावप्रत्ययस्थले इत्यादि। न भासत इति । "लः कर्मणि भावे चाकर्म केभ्यः' इति सूत्रोण सकर्म केभ्यः कर्मणि कतरि चाकर्म केभ्यो भावे कर्तरि च लकारविधानात् सकर्मकत्वस्य च क्रियाजन्यफलशालित्वरूपकर्मत्वघटितत्वत् काख्याते आत्मनेपदार्थः फलं भासितं युज्यते, नत्वेवं भावाख्याते कर्मविरहेणफलविरहादितिभावः ॥ ६० ॥
॥ तर्कामृतम् || भविष्यत्त्वं लुटोऽर्थः, तच्च विद्यमानप्रागभावप्रतियोग्युत्पत्तिकत्वम् । तेन "गमिष्यति" इत्यत्र विद्यमानप्रागभावप्रतियोग्युत्पत्तिकगमनानुकूलकृतिमानित्यर्थः । लुटोऽथोऽनद्यतनत्वमपि। लुङोऽर्थ उत्पत्तिर्भ तत्वञ्च भूतत्वभतीतत्वं, तच्चोत्. पत्तावन्वेति । तथाच विद्यमानध्वंसप्रतियोग्युत्पत्तिकत्वं लब्धम् । लिटोऽनद्यतनत्वं परोक्षत्वं अतीतत्वञ्चार्थ । तदन्वयः पूर्ववदुत्पत्तौ । लङोऽनद्यतनत्वमतीतत्वञ्चार्थः ।
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127