Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ ८४ ] सत्त्वेऽपि नातिव्याप्तिः। उपमानलक्षणस्योपमितिघटितत्वादुपमिति निरूपयितु भूमिकामारचयति कीदृश इत्यादि । अत्र यत्करणं तदभिधातुमाह गोसदृशं प्राणिनं पश्यतीति। तथाच यदेतद्गोसादृश्यदर्शनं तदुपमानमित्यर्थः। व्यापारवत एव कारणस्य करणत्वनियमादत्र यो व्यापारस्तं प्रदर्शयितुमाह पूर्वोत्तवाक्यार्थं स्मरतीति । तथाच गोसदृशो गवय इत्यस्य वाक्यस्यार्थस्मरणं व्यापार इतिभावः। उपमिति. निर्दिशति अयं गवयपदवाच्य इति । इदम्पदेन गोसदृशपिण्डनिर्देशः । इदन्त्वावच्छिन्नविशेष्यकगवयपदवाच्यत्वप्रकारको यो निर्णयः स उपमितिरितिभावः । उपमितित्वञ्चीपमिनोमीत्यनुव्यवसायसाक्षिकजातिविशेषः। सिद्धान्तमुक्तावलीकृतस्तु 'गबयो गवयपदवाच्यः' इत्याकारकनिर्णयस्यैवोपमितित्वं नतु 'अयं गवयपदवाच्यः' इत्याकारकनिर्णयस्य, गवयान्तरे शक्तिग्रहाभावप्रसङ्गादित्यादुः। करभे पश्वन्तरवै. धर्म्यश्रवणानन्तरं तथाविधविधर्मपिण्डदर्शने सति वैधातिदेशवाक्यार्थस्मरणादयं करभपदवाच्य इत्याकारकवैधयोपमितिमपि मन्यन्ते न्यायवात्तिकतात्पपर्यकारादयः ॥५२॥
॥। इत्युपमाननिरूपणविकृतिः ॥॥
॥ तर्कामृतम् ॥ आप्तोक्तः शब्दः प्रमाणम्। प्रकृतवाक्यार्थगोचरयथार्थज्ञानवानाप्तः। पदज्ञानं करणम् । पदार्थोपस्थितिापारः। आकाङक्षायोग्यतासत्तितात्पर्यज्ञानानि सहकारीणि। फलं शाब्दबोधः ॥ ५३॥
॥विवतिः॥ अथोपजीव्योपजीवकभावसङ्गत्या शब्दं निरूपयत्याप्तीक्त इति। तथाच शब्दत्वजातेभून्तिोच्चरितशब्दे सत्त्वेऽपि न व्यभिचारः। एवञ्चाप्तोच्चरितत्वं लक्षणं 'शब्दः प्रमाणम्' इति च लक्ष्यनिर्देश इति बोध्यम् । एतच्च स्वरूपसत्पदकरणत्वमतेन, पदज्ञानस्य करणत्वमते तु आप्तेनोच्यते यत्पदं तद्विषयकज्ञानस्य शब्दप्रमाणत्वमिति ज्ञेयम् । अतएव 'पदज्ञानं करणम्' इत्युत्तरग्रन्थाविरोधः। भूमप्रमादादिदोषग्रस्तस्याप्तत्वं न सम्भवतीत्याशयेनाह प्रकृतेत्यादि। अप्रकृतवाक्यार्थयथार्थज्ञानवत्त्वस्य प्रकृतवाक्यार्थायथार्थज्ञानवत्त्वस्य च भ्रान्तादेरपि सत्त्वादतिप्रसङ्गवारणाय प्रकृतेति यथार्थेति च। तथाच फ्टकर्मताकानयनानुकूलकृतिगोचरयथार्थज्ञानवदुचरित: पटमानयेत्यादिशब्दः प्रमाणमितिभावः । अथ करणव्यापारादिकं स्वयं कण्टतोऽभिधत्ते पदज्ञानमित्यादि। पदार्थोपस्थितिरिति। पदजन्यार्थोपस्थिति
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127