Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ ८२ ]
'विषयकत्वेनेत्यत्र तृतीयाया अनतिरिक्तरूपावच्छेइकत्वार्थकत्वात् सिषाधयिषाविशिष्टसिद्ध ेश्चानुमित्यप्रतिबन्धकत्वात् साध्यवत्पक्षस्य न हेत्वाभासत्वं युक्तं किन्तु वादिनिग्रहप्रयोजकतया निग्रहस्थानत्वमेवोचितमितिप्राहुः । तत्रासत्पक्षकाश्रयासिद्धमुदाइरति शशविषाणमिति । तत्र प्रतिबन्धकं ज्ञानविषयशशीयत्वाभाववद्विषाणमाश्रयासिद्धिरितिभावः । सिद्धसाधनरूपाश्रयासिद्धमभिनीय दर्शयति शरीरमिति । हस्तादिमत्त्वस्य साध्यत्वे हस्तादिमत्त्वादिति हेतुप्रयोगस्य सम्प्रदायविरुद्धत्वादाह हस्तादिमत्तयेत्यादि । अत्र परामर्शदशायां सिद्धिसत्त्वादनुमित्या सिद्धस्य साधनात् सिद्धसाधनमिति भावः ।
स्वरूपासिद्धं निरूपयति यत्र पक्षावृत्तिर्हेतुरिति । तथाच हेत्वभाववत्पक्षादिः स्वरूपासिद्धिरितिभावः । एतस्यच व्याप्यवत्ताग्रह विरोधित्वात्परामर्श विघटनद्वारा दूषकत्वम् । सामान्यतः स्वरूपासिद्धमुदाहरति यथा पर्व्वत इति । नित्यदोषोऽयं त्रिविधीऽसिद्धः ।
स्वरूपासिद्ध विभजते स चेति । स्वरूपासिद्धश्चेति । विशेषणासिद्धेति । यत्र पक्षनिष्ठहेत्वभावाधिकरणत्वं हेतुघटकविशेषणाभावाधिकरणत्वप्रयुक्तं भवति तत्र विशेषणासिद्धिरित्यर्थः । तथाच विशिष्टसाधनाभावप्रयोजकविशेषणाभाववत्पक्षादिविशेषणासिद्धिरितिभावः । विशेष्यासिद्धेति । यत्र पक्षेहेत्वभाववत्त्वं विशिष्टसाधनघटकविशेष्याभाववत्त्वप्रयुक्तं तत्र विशेष्यासिद्धिः । तथाच विशिष्टसाधनाभावप्रयोजकविशेष्याभाववत्पक्षादिः . विशेष्यासिद्धिरितिभावः । भागासिद्ध ेति । यत्र पक्षतावच्छेदकसामानाधिकरण्येन हेत्वभावस्तत्र भागासिद्धिः । तथाच व्यापकत्वानवच्छिन्नसंसर्ग क हेत्वभाववत्पक्षादिर्भागासिद्धिरितिभावः । क्रमेण त्रिविधासिद्धोदाहरणाणि दर्शयति आद्यो यथेत्यादि । जन्यत्वस्यानित्यत्वसाधने सद्ध तुत्वाच्चाक्षुषत्वे सतीति । चाक्षुषत्वमात्रस्य हेतुत्वे विशेषणासिद्धयनुपत्तेराह जन्यत्वादिति । अत्र पक्ष े विशिष्टसाधनाभावे चाक्षुषत्वरूपविशेषणाभावः प्रयोजकः । शब्दत्वावच्छेदेनैव परमाणुवृत्तित्वाभावस्य सत्त्वादर्थान्तरं वारयितुमाह तुणत्वे सतीति । गुणत्वाभावस्य शब्देऽसत्त्वादाह परमाणुवृत्तित्वादिति । अत्र शब्दे विशिष्टसाधनाभावे परमाणुवृत्तित्वरूपविशेष्याभावः प्रयोजकः । वस्तुतस्त्वत्र विशेष्यासिद्धिभिचारादिसङ्कीर्णा जलीयपरमाणुरूपादेरपि हेत्वधिकरणत्वात्तत्र च साध्याभावस्य सत्त्वादतः शब्दोऽनित्यो जन्यत्वे सति चाक्षुषत्वादित्यादिकमसङ्कीर्णविशेष्यासिद्धय ुदाहरणं मन्तव्यम् । एतानि द्रव्याणीति । एतत्त्वस्य नित्यद्रव्य इवानित्यघटादावपि सत्त्वात् पक्षता बच्खेदकावच्छेदेन हेत्वभावविरहाद्भागासिद्धिरित्यर्थः ।
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127