Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ ८१ । असाधारणस्थलमभिनयति यथा पर्वत इत्यादि। पक्षे साध्यानिश्चयदशायामत्रासाधारण्यमिति बोध्यम् । अयञ्चानित्यदोषः। ___ उपसंहारः-अन्वयव्यतिरेकसहचारयोरन्यतरो यस्य नास्ति स हेतुरनुपसंहारी त्याशयेन प्राचां मतमनुसृत्यानुपसंहारिणं लक्षयति सर्वपक्षकत्वमिति सर्वस्यैव पक्षत्वादन्वयव्यतिरेकसहचारग्रहासम्भवाद्वयाप्ताग्रिहानुत्पादादस्य दूषकत्वमितिभावः । तन्मते किञ्चिद्विशेष्यकनिश्चयाविषयसाध्यकत्वे सति किञ्चिद्विशेष्यकनिश्चयाविषयसाध्याभावकत्वमनुपसंहारिलक्षणम् । नव्यानां मते त्वत्यन्ताभावाप्रतियोगिसाध्यकत्वादिकमनुपसंहारित्वम्, तस्य च व्यतिरेकव्याप्तिग्रहविरोधित्वं दूषकतावीजम् । अयमप्यनित्यो दोषः। अनुपसंहारिस्थलमभिनयति यथा समित्यादि ।
अथ विरुद्ध लक्षयति साध्याभावव्याप्त इति । अत्र व्यतिरेकव्याप्ति ह्या । तथा च साध्यव्यापकीभूताभावप्रतियोगित्वं विरोधः। तस्य च साध्याभावग्रहोन्नायकतया साक्षादनुमितिप्रतिबन्धकत्वम् । विरुद्धस्थलमभिनीय दर्शयति यथा घटो नित्य इति। असङ्कीर्णविरोधस्तु न सम्भवत्येव व्यभिचारस्य बाधस्य सरूपासिद्ध वाऽवश्यम्भावात्। अयञ्च नित्यदोषः।
'साध्यविरोधिसाधको हेतुः' इत्यादिना लक्षणस्योक्तत्वात्, सन्–विद्यमानः, प्रतिपक्षः-विरोधिपरामर्शः, यस्येति व्युत्पन्न्या समबलविरोधिपरामर्शकालीनपरामर्श विषयःसत्प्रतिपक्ष इति सूचनाद्वात्र साक्षात्सत्प्रतिपक्षलक्षणानमिधानमिति बोध्यम् । तादशपरामर्श विषयश्च साध्याभावव्याप्यवत्पक्षादिः। परामर्शश्च साध्याभावव्यतिरेकव्याप्त्यनवगाही ग्राह्यः। तेन नासाधारण्यविरोधसङ्करः । सत्प्रतिपक्षमुदाहरति यथा पर्वतो वह्निमान् धूमादित्यादि। अत्र वहृयभावव्याप्यवत्तापरामर्शेण वयनुमितेवहिव्याप्यवत्तापरामर्शेण च वयभावानुमितेः प्रतिरोध इति भावः। अयञ्चानित्यदोषः।
असिद्ध विभजतेऽसिद्धस्त्रिविध इति । आश्रयासिद्ध इत्यादि। तथाचैतत्तितयान्यतमत्वमसिद्धसामान्यलक्षणमिष्यर्थः। असिद्ध ष्वाश्रयासिद्ध निरूपयति यत्र पक्षोऽसन्निति। यद्ध तुनिरूपितः पक्षः पक्षतावच्छेदकाभाववान् स हेतुराश्रयासिद्धइत्यर्थः। तथा च पक्षतावच्छेदकाभाववत्पक्ष आश्रयासिद्धिरितिभावः। अवच्छेदावच्छेदेनानुमिताववच्छेदावच्छेदेन सिद्धः सामानाधिकरण्येनानुमितौ च सामानाधिकरण्येनावच्छेदावच्छेदेन चोभयथासिद्धः प्रतिबन्धकत्वात्तद्विषयीभूतसाध्यवत्पक्षस्यापि हेत्वाभासत्वमावश्यकं, तस्य चान्यहेत्वाभासेऽप्रवेशात् साध्यसंशयरूपपक्षताविघटकतयाश्रयासिद्धावन्तर्भावो युक्त इतिप्राचां मतानुसारेणाह सिद्धसाधनं वेति । पक्षतावच्छेइकरूपेण पक्षे साध्यनिर्णय इत्यर्थः। तथास्तु यादृशविशिष्ट
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127