Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 89
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ८० ] हस्तादिमत्तयाप्रतीयमानत्वात् । यत्र पक्षावृत्तिर्हेतु: स स्वरूपासिद्ध:, यथा पर्वतो वहि नमान् महानसत्वात् । स च विशेषणासिद्धविशेष्या सिद्धभागासिद्धभेदाद्बहुविधः, आद्यो यथा शब्दोऽनित्यश्चाक्षुषत्वे सति जन्यत्वात् । द्वितीयो यथा शब्दोऽनित्यो गुणत्वेसति परमाणुवृत्तित्वात् । तृतीयो यथा एतानि द्रव्याणि निरवयवत्वात् । सोपाधिर्व्याप्यत्वासिद्धः, यथा घूमवान्वह, नेः । वाधो यथा ह्रदो वहि, नमान् द्रव्यत्वात् । तेन.' एतद्दोषत्रयरहितो हेतुः सद्ध ेतुः ॥ ५१ ॥ || * ॥ इत्यतुमानं व्याख्यातम् ॥ * ॥ ॥ विवृतिः ॥ सद्धेतु ं निरूप्य विरोधादिसम्बन्धेन स्मृतमसद्धे तु निरूपयितुं प्रतिजानीतेऽथेति । व्याप्तिपक्षधर्म्मता विशिष्टहेतु निरूपणानन्तरमित्यर्थः । हेत्वाभासा इति । हेतुवदाभासन्त इति व्युत्पत्र्या दुष्टहेतव इत्यर्थः । विभजते सव्यभिचारेत्यादि । पञ्चेति । यद्यपि विरुद्धादिहेतोर्व्यभिचारित्वादिनियमा दुहुष्टानां पञ्चत्वानुपपन्न्या पञ्चधा विभागोऽनुपपन्नस्तथापि दोषाणां सव्यभिचारत्वादितत्तद्धर्मेण पञ्चविधत्वादुष्टानां पचविधत्वाभिधानमिति ध्येयम् । दोषसामान्यलक्षणन्तु यादृशविशिष्टविषयकत्वेन ज्ञानस्यानुमितिप्रतिबन्धकत्वं तत्त्वमित्यादिकमप्यादावनुसन्धेयम् । दुष्टत्वञ्च सम्बन्धविशेषेण दोषवन्त्वम्, तेन हृदो वह निमान् धूमाद्वित्यादौ वह नयभाववद्ह्रदाद्यात्मकदोषवत्त्वस्य धूमादावसत्त्वेऽपि न क्षतिरितिसंक्षेपः । तत्राद्यं विभजते सव्यभि - चारस्त्रिविध इति । सथभिचारत्वन्तु विशिष्टसाध्यसाधनग्रह विरोधितानवच्छेदकत्वे सति विषयविधया व्याप्तिग्रहविरोधितावच्छेदकत्वम् । सव्यभिचारेषु साधारणं लक्षयति साध्याभाववद्व त्तित्वमिति । साध्यतावच्छेदकधर्मसम्बन्धाबच्छिन्नप्रतियोगिताकभाववन्निरूपित हेतुतावच्छेदकसम्बन्धावच्छिन्नवृत्तित्वमित्यर्थः । तेन वह्निमान् धूमादित्यादौ तत्तद्रव्यभाववति समवायसम्बन्धावच्छिन्नद्रव्यभाववति च संयोगेन संयोगावच्छिन्नवह नयभाववति वा कालिकेन धूमादेवृत्तित्वेऽपि नातिव्याप्तिः । एतस्य च साध्याभाववदवृत्तित्वरूपान्वयव्याप्तिग्रह विरोधितावच्छेदकतया दोषत्वं बोध्यम् । साधारणमुदाहरति यथा धूमवानित्यादि । अयञ्च नित्यदोषः । असाधारणं लक्षयति सकलसपक्षेति । सपक्षत्वावच्छेदेन वर्त्तमाना या व्यावृत्तिस्तत्प्रतियोगित्वं साध्यव्यापकीभूताभावप्रतियोगित्वमितियावत् । सपक्षत्वमत्र साध्यवत्त्वरूपमेव विवक्षितं नतु निश्चयगर्भ निश्चयांशस्य प्रतिबन्धकेनायमनुपयोगात् । अस्य च साध्यवत्त्वग्रह विरोधिसाध्याभावग्रहो नायकतया दोषत्वमिति मणिकृतामाशयः । For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127