Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 87
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ७८ ] ॥ तर्कामृतम् ॥ सोपाधौ पक्षसत्त्वाद्यन्यतमभङ्ग आवश्यकः । सोपाधिश्च स्वव्यभिचारितासम्बन्ध्धेनोपाधिविशिष्टः । उपाधिश्च त्रिविधः साधनाव्यापकत्वे सति शुद्धसाध्यव्यापकः, साधनाव्यापकत्वे सति पक्षधर्मावच्छिन्नसाध्यव्यापकः, साधनाव्यापकत्वे सति साधनावच्छिन्नसाध्यव्यापकश्च । आद्यो यथा - ' अयोगोलकं धूमवद्वहनेः' इत्यत्रार्द्रेन्धनप्रभववहि नमत्त्वमुपाधिः साधनाव्यापत्वे सति शुद्धसाध्यव्यापकः । द्वितीयो यथा- 'वायुः प्रत्यक्षः प्रत्यक्षस्पर्शांश्रयत्वात्' इत्यत्र वहिर्द्रव्यत्वावच्छिन्नप्रत्यक्षत्वस्य साध्यस्य व्यापकमुद्भूतरूपवत्त्वमुपाधिः । तृतीयो यथा - ' ध्वंसो विनाशी जन्यत्वात्' इत्यत्र जन्यत्वावच्छिन्नविनाशित्वव्यापकं भावत्वमुपाधिः ॥ ५० ॥ ॥ विवृतिः ॥ 'हेतोर्ग मकतौपयिकानि पञ्चरूपाणि नान्वयव्यतिरेकि हेतुत्वावच्छेदेन वर्तन्ते किन्तु निरुपाधिकान्वयव्यतिरेकिहेतावेवेत्याशयेनाह सोपाधाविति । उपाधिविशिष्ट इत्यर्थः । उप - समीपस्थे ( हेतौ ) स्वधर्ममादधातोत्युपाधिरितिव्युत्पत्त्या व्यभिचारोन्नायकत्व - मुपाधेर्द्रष्टव्यम् । साध्यसाधनभेदेनोपाधेभिन्नत्वादुपाधित्वस्य द्रव्याद्यनुगताश्रयकत्वासम्भवेन संयोगादेन्नियतसम्बन्धत्वानुपपत्त्यानुगतवैशिष्ट्यघटकसम्बन्धमाह 'स्वत्र्यभिचारितेति । स्वम् – उपाधिः । त्रिविध इति । तत्र साध्यव्यापकत्वे सति साधनाव्यापकत्वस्योपाधिसामान्यलक्षणत्वं विभागादेव व्यक्तम् | अतः सामान्यलक्षणमनभिधाय विभागोऽसङ्गत इति निरस्तम् । साधनाव्यापकत्वे सतीति । अव्यापकत्वस्य व्यापकत्वघटकत्वादादावव्यापकत्वाभिधानम् । शब्दोऽनित्यः कार्यत्वादित्यादौ सावयवत्वादावतिव्याप्तिवारणाय विशेष्यदलम् । एवं तत्रैव प्रमेयत्वादावतिप्रसङ्गवारणाय सत्यन्तम् । शुद्धसाध्यव्यापक इति । पक्षधर्माद्यनवच्छिन्नसाध्यव्यापक इत्यर्थः । अत्र साध्यव्यापकत्वं येन रूपेण येन सम्बन्धेन च ग्राह्यं तेनैव रूपेण सम्बन्धेन च साधनाव्यापकत्वमपि बोध्यम् । अन्यथा वहि नमान् धूमादित्यादौ वहि नत्वेन साध्यव्यापके तत्तद्बहि नत्वेन च साधनाव्यापके तत्तद्वह नौ, संयोगेन साध्यव्यापके समवायेन च साधनाव्यापके आलोकादौ चातिव्याप्तिः प्रसज्येत । पक्षधर्मावच्छिन्नेति । अत्रावच्छिन्नत्वं सामानाधिकरण्यसम्बन्धेन ग्राह्यम् । एवं साधनावच्छिन्नत्वमपि तृतीये । विधात्रयं क्रमेणाभिनीय दर्शयत्याद्यो यथेत्यादि । वहि्नमत्त्वमात्रस्य साधनाव्यापकत्वविरहादुक्तमार्द्रेन्धनप्रभवेति । प्रत्यक्षस्पर्शाश्रयत्वादिति । अनुद्भूतस्पर्शाश्रयत्वगिन्द्रियान्तर्भावेण व्यभिचारवारणाय प्रत्यक्षेति । बहिर्द्रव्यत्वावच्छिन्नस्येति । 1 अत्र बहिर्द्रव्यत्वं पक्षधर्मः, तच्च न बहि For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127