Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 86
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Acharya Shri Kailassagarsuri Gyanmandir [ ७७ ] अन्वयथतिरेकिणं निरूपयति यत्र साध्यमित्यादि। केवलव्यतिरेकिण्यति व्याप्तिवारणाय साध्यमिति। केवलान्वयिन्यतिव्याप्तिवारणाय साध्याभाव इति । उभयत्रातिव्याप्तिवारणार्थमन्यत्र ति। पक्षातिरिक्त इति तदर्थः। प्रसिद्ध इति । प्रसिद्धत्वं यथार्थधीविषयत्वम् । तथा च पक्षान्यविशेष्यकयथार्थनिश्चयप्रकारीभूताभावप्रतियोगिसाध्यनिरूपितहेतुत्वमन्वयव्यतिरेकिहेतुत्वमित्यर्थः। अन्वयव्यतिरेकिणमभिनीय दर्शयति यथा पर्वत इत्यादि। प्राचां मते पञ्चरूपविशिष्टहेतोर्यद्गमकत्वं तदन्वयव्यतिरेकिहेतोरेवान्ययोः पञ्चरूपविरहादित्याशयेनाहान्वयव्यतिरेकिणोत्यादि । पञ्चरूपाणि दर्शयतिपक्षवृत्तित्वमित्यादि । विपक्षव्यावृत्तत्वं—विपक्षावृत्तित्वम् । केवलान्वयिनि पञ्चरूपासत्त्वमादर्शयति केवलान्वयिनीत्यादि। विपक्षव्यावृत्तत्वरहितमिति । विपक्षत्वघटकसाध्याभावस्यैवासिद्ध रितिभावः। केवलव्यतिरेकिणि पञ्चरूपासत्त्वं प्रदर्शयति केवलव्यतिरेकिणीति । सपक्षसत्त्वरहितमिति। तत्रत्यपृथिवीत्वरूपहेतोः पक्षमात्रवृत्तित्वादिति । पक्षवृत्तित्वमित्यत्र किं पक्षत्वमित्याकाङ क्षायामाह यत्र साध्यसन्देह इति । साध्यसंशयविशेष्यताश्रयः पक्षपदार्थ हत्यर्थः। वस्तुतस्तु निणीते मननविधातात् साध्यसन्देहं विनापि धनजितादिना मेघाद्यनुमानाच्च तादृशेन पक्षपदार्थः किन्तु स्वप्रतियोगिविशेष्यत्वसम्बन्धेन प्रोक्तपक्षताश्रयत्वमेव पक्षपदप्रवृत्तिनिमित्तं बोध्यम् । सपक्षत्वं निर्वक्ति यत्र साध्यनिश्चय इति। साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यप्रकारकयथार्थ निर्णयविशेष्यत्वं सपक्षत्वमित्यर्थः। तेन कालिकादिसंसर्गको यः साध्यनिश्चयो यो वा साध्यतावच्छेदकसम्बन्धेन भूमात्मकः साध्यनिश्चयस्तन्नद्विशेष्योभूतह्रदादिनिरूपितवृत्तित्वविरहान्न धूमादिरूपान्ववयव्यतिरेकिणः सपक्षसत्त्वहानिः । विपक्षत्वं निरूपयति यत्र साध्याभावनिश्चय इति । साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकसाध्याभावप्रकारकयथार्थ निश्चयविशेष्यत्वं विपक्षत्वमित्यर्थः। तेन समवायसम्बन्धावच्छिन्नवह न्यभावप्रकारको यो निश्चयो यो वा संयोगावच्छिन्नद्रव्यभावप्रकारको भूमात्मको निश्चयस्तत्तद्विशेष्यीभूतमहानसादिवृत्तित्वाद् धूमाद्यन्वयव्यतिरेकिणो न विपक्षव्यावृत्तत्वहानिः। अत्र साध्याभाववत्त्वं साध्यतावच्छेदकसम्बन्धेन साध्यवत्त्वबुद्ध विषयतयाप्रतिबन्धकतावच्छेदकसम्बन्धेन ग्राह्यम् । तेन संयोगावच्छिन्नवह्यभावस्य कालिकादिना महानसादौ सत्त्वेऽपि नोक्तदोषतादवस्थ्यम् । अवाधितत्वघटकवाधं निरूपयति साध्याभाववान् पक्ष इति । साध्यवदन्यत्ववत्पक्षादिरपि बोध्यः । असत्प्रतिपक्षितत्वघटकीभूतं सत्प्रति पक्षं निरूपयति साध्यविरोधीत्यादि। साध्यविरोधित्वेसति साध्यविरोध्युन्नायक इत्यर्थः। तथाच साध्याभावव्याप्यबान् साध्यवदन्यत्वव्याप्यवान् वा पक्षादिः सत्प्रतिपक्ष इतिभावः॥ ४६॥ For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127