Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ ७६ ]
नास्ति स केवलव्यतिरेकी, यथा 'पृथिवी इतरेम्यो भिद्यते पृथिवीत्वात्' । यत्रेतरभेदाभावस्तत्र पृथिवीत्वाभावो यथा जलादौ । व्यतिरेकव्याप्तौ तु साध्याभावो व्याप्यो हेत्वभावो व्यापकः । यत्र साध्यं साध्याभावश्चान्यत्रप्रसिद्धः सोऽन्वयव्यतिरेकी, पर्वत हि नमान् धूमात् । इति । अन्वयव्यतिरेकिताववश्यं पञ्चरूपोपपन्नतापेक्षणीया । पक्षवृत्तित्वं, सपक्षसत्त्वं विपक्षव्यावृत्तत्वं, अवाधितत्वं, असत्प्रतिपक्षितत्वञ्चेति पञ्चरूपाणि । केवलान्वयिति विपक्षव्यावृत्तत्वरहितं, केवलव्यतिरेकिणि सपक्षसत्त्वरहितं चतुरूपमेवापेक्षितम् । यत्र साध्यसन्देहः स पक्षः । यत्र साध्यनिश्चयः स सपक्षः । यत्र साध्याभावनिश्चयः स विपक्षः । साध्याभाववान्पक्षो वाधः । साध्यविरोधिसाधकी हेतुः सत्प्रतिपक्षः ॥ ४६ ॥
॥ विवृतिः ॥
पुर्नावभजते तच्चानुमानमिति । स्वार्थपरार्थयोः प्रत्येकमित्यर्थः । विधात्रयं दर्शयति केवलात्वयीत्यादि । केवलान्वयिपदार्थं निर्वक्ति यत्र त्यादि । यच्छब्दो हेतुपरः, सप्तम्यर्थोनिरूपितत्वं तस्य च साध्येऽन्वयः, साध्यस्येति लुप्तषष्ठ्या निष्टत्वमुपस्थाप्यते, व्यतिरेक इति प्रथमार्थः प्रतियोगित्वं, तस्य च ननर्थेऽभावेऽन्वयः, कुत्रेति सप्तम्यर्थो वृत्तित्वं तस्य च व्यतिरेकेऽन्वयः । तथा च किञ्चिद्व, त्तिव्यतिरेक प्रतियोगित्वाभावो यद्धे तु निरूपित साध्यवृत्तिः स हेतुः केवलान्वयीति फलितार्थः । तेन न सिद्ध ्यसिद्धिभ्यां व्याघातः । एतच्च ज्ञायमानलिङ्गस्यानुमितिकरणत्वमतेन । अतएव 'अन्वयव्यतिरेकिणि 'हेतौ' इत्यत्रहेतुपदमपि । स्वमते लिङ्गज्ञानादेरनुमितिकरणत्वादर्थान्तराण्यूहनीयानि । एवमग्रे ऽपि । अत्र व्यतिरेकशब्दोऽत्यन्ताभाववचनः, तेनघटत्वाद्यनुयोगिकभेदप्रतियोगित्वस्याभिधेयत्वेऽपि नाव्याप्तिः । व्यतिरेके यत्किञ्चिद्वत्तित्वनिवेशान्न'गगणाभावसाध्यव्याप्तिः । प्रमेयत्वहेतोः केवलान्वयित्वमुपपादयति अभिधेयत्वस्पे-त्यादि । अभिधेयत्वन्तु शब्दशक्यत्वम् ।
केवलव्यतिरेकिणं निर्वक्ति यत्र साध्यप्रसिद्धिरित्यादि । यद्वे तु निरूपितसाध्यव`वप्रकारकनिश्चयः पक्षातिरिक्तविशेष्यकः सन् यथार्थो न भवति स हेतुः केवलव्यति - रेकीत्यर्थः । केवलव्यतिरेकिण्यसम्भववारणाय पक्षातिरिक्त इति । केवलव्यतिरेकि - णमभिनीय दर्शयति यथा पृथिवीत्यादि । पक्षान्तर्भावेण सहचारग्रहस्य व्याप्त्यग्राहकत्वादत्रान्वयव्याप्तिनिश्चायकान्वयसहचारग्रहासम्भाद्वयतिरेकव्याप्तिग्राहकं विपक्षान्तर्भावेण व्यतिरेकसहचारग्रहमुपपादयति यत्र तरभेदाभाव इत्यादि । व्यतिरेकव्याप्तिः स्वरूपमुपपिपादयिष् राह व्यतिरेकव्याप्ताविति । साध्याभावो व्याप्य इति । तथाच - साध्याभावव्यापकीभूताभावप्रतियोगित्वं व्यतिरेकव्याप्तिरित्यर्थः ।
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127