Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 88
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ७e ] रिन्द्रियजन्यप्रत्यक्षविषयद्रव्यत्वरूपं तस्य पक्षधर्मत्वानुपपत्तेः किन्तु गगणाद्यन्यद्रव्यत्वम्, द्रव्यत्वावच्छिन्नप्रत्यक्षत्वस्यात्मादावपि सत्त्वादुपाघेः साध्याव्यापकतापत्तेराह वहि नरिति । अत्र केवलसाध्यव्यापकत्वं न सम्भवति प्रत्यक्षविषयत्वस्य रूपाभाववत्या. स्मादौ सत्त्वादिति भावः । उद्भूतरूपवत्त्वमिति । न च तथाविधसाध्यव्यापकत्वस्य रूपत्वावच्छिन्नेऽपिसत्त्वादुद्भूतपदं व्यर्थमिति वाच्यं प्रत्यक्षत्वेनोद्भूतरूपवत्त्वेन कार्यकारणभावलक्षणानुकूलतर्कप्रदर्शनार्थत्वेन तत्सार्थक्यात् । जन्यत्वादिति। अत्र जन्यत्वं ध्वंसप्रतियोगित्वं तेन तस्य पक्षधर्मत्वाभावात् नोपाधिशैविध्यहानिः। भावत्वमुपाधिरिति। अत्र केवलसाध्यव्यापकत्वं न सम्भवति विनाशित्वस्य भावत्वाभाववति प्रागभावे सत्त्वादिति भावः । केचित्तु ध्वंसो विनाशी प्रमेयत्वादिन्यत्रोक्तत्रिविधोपाधेरसम्भवाच्चतुर्थमुदासीनधर्मावच्छिन्नसाध्यव्यापकं जन्यत्वावच्छिनानित्यत्वव्यापकं भावत्वमुपाधिरिति वदन्ति । वस्तुतस्तु यद्धावच्छिन्नसाध्यव्यापकत्वे सति तद्धर्मावच्छिन्नसाधनाव्यापकत्वमुपाधित्वमित्युक्तौ न कश्चिद्दोष उक्तस्थलेषु बहिर्द्रव्यत्वादेर्यद्धर्मत्वेनोपादातुं शक्यत्वात् । उपाधेषकत्वत्त स्वव्यभिचारेणहेतोः साध्यव्यभिचारोन्नायकतया बोध्यम् । तदुक्क 'व्यभिचारोन्नयं कुर्खन्नुपाधियति दोषताम् । एतद् वहि नसर्वेषामुपाधीनां परायणम्' इति । यद्यप्ययं संयोगसंयोगसामान्याभाववान् संयोगयावद्विशेषाभाववत्त्वादित्यादौ निर्गुणत्वादिरूपोपाधेस्तावन्मात्रेण दूषकत्वं नोपपद्यते संयोगात्मकसाध्याभाववढ त्तित्वस्य हेताविष्टत्वात् तथापि तत्र स्वव्याप्यत्वेन हेतुना साध्यस्य पक्षावृत्तित्वोन्नायकतयोपाधेईषकत्वं बोध्यं संयोगसामान्याभावे इदन्त्वावच्छिन्नावृत्तिज्ञाने सति इदन्त्वावच्छिन्नोद्देश्यकसंयोगसामान्याभावविधेयकानुमितेः प्रतिरोधादसमानप्रकारकज्ञानयोरपि प्रतिबध्यप्रतिबन्धकभावस्य सिद्धत्वात् ॥५०॥ ॥ तर्कामृतम् ॥ अथ हेत्वाभासाः कथ्यन्ते। सव्याभिचारविरुद्धसत्प्रतिपक्षासिद्धवाधिताः पञ्चहेत्वाभासाः। सव्यभिचारस्त्रिविधः साधारणासाधारणानुपसंहारिमेदात् । साध्याभाववर त्तित्वं साधारणत्वं, यथा धूमवानवह नेः। सकलसपक्षव्यावृत्तत्वमसाधारणत्वम्, यथा पर्वतो वहि नमान् पर्वतत्वात्। सर्वपक्षकत्वमनुपसंहारित्वं, यथा सर्वप्रमेयमभिधे यत्वात्। साध्याभावव्याप्तोहेतुविरुद्धः, यथा घटो नित्यः सावयवत्वात् । सत्प्रतिपक्षो यथा पर्वतो वहि नमान् धूमात्, पर्वतो वह नयभाववान्महानसान्यत्वात् । असिद्धस्त्रिविधः-आश्रयासिद्धः स्वरूपासिद्धो व्याप्यत्वासिद्धश्च । यत्र पक्षोऽसन्सिद्धसाधनं वा स आश्रयासिद्धः, यथा शशविषाणं नित्यमजन्यत्वात, शरीरं हस्तादिमत् For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127