Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 83
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ७४ ] वत्तेमानत्वाद् घटोनास्तीत्याद्यमावस्यविद्यमानत्वद् घटाद्यत्यन्ताभावोहेतुसमानाधिकरणात्यन्ताभावस्तस्य प्रतियोगी घटादिस्तद्भिन्नो वहि नः साध्यस्तदधिकरणीभूतं यत् पर्वतादि तन्निरूपितवृत्तित्वं धूमस्यास्तीति धूमहेतौ लक्षणसमन्वयः। घूमवान् वह्न रित्यत्र व्यभिचारिणि चायोगोलकस्याषि वह्यधिकरणत्वात्तत्र च धूमो नास्तीत्यभावस्वस्य सत्त्वाद्ध'तुसमानाधिकरणोऽत्यन्ताभावो धूमाभाव एवेतितत्प्रतियोगिभिन्नत्वस्य धूमेऽसत्त्वाद्वह्निरूपहेतौ न लक्षणसमन्वयः। अव्याप्तिरिति नचेत्यत्रान्वेति । संयोगस्याव्याप्यवृत्तित्वाद्रव्यत्वरूपहेतोरधिकरणे घटादौ संयोगाभावस्य सत्त्वात् साध्याभाव एव हेतुसमानाधिकरणाभाव इति तत्प्रतियोगिभिन्नत्वस्य साध्येऽ. सत्त्वाल्लक्षणागमनमिति । इमामव्याप्ति वारयितुं हेतुसमानाधिकरणाभावे प्रतियोगिव्यधिकरणत्वं निवेशयति प्रितियोगिव्यधिकरणेति । तदर्थश्च प्रतियोग्यनंधिकरणीभूतं यद्धत्वधिकरणं तद्वत्तित्वम् । तथा च संयोगाभावस्य यः प्रतियोगी संयोगो हेत्वधिकरणस्यघटादेस्तदनधिकरणत्वसत्त्वात् प्रतियोगिव्यधिकरणहेतुसमानाधिकरणाभावो न संयोगाभावः किन्तु पटाद्यभाव एवेतितत्प्रतियोगि यत्पटादिकं तद्भिन्नत्वस्य साध्ये सत्त्वादयं संयोगवान् द्रव्यत्वादित्यत्र नाव्याप्तिः। अत्र च कालो घटवान् महाकालत्वादित्यदौ प्रतियोगिव्यधिकरणाभावाप्रसिद्धयाऽव्याप्तेरिणप्रकारः सिद्धा. न्तलक्षणदीधितौ बुद्धिकुशलै द्रष्टव्यः।। पक्षतासहितेनेत्युक्त, तत्र का नाम पक्षतेत्याकाङ्घायामाद पक्षताचेति । वह्निव्याप्यधूमवान् पर्वतो वह्निव्याप्यधूमवान् पर्वतो वहि नमांश्चेति सिद्धात्मकपरामर्शसत्त्वे सिषाधयिषादशायां पर्वतो वहि नमानित्यनुमितेरुत्पादाय सहकृतान्तं सिद्धिविशेषणम् । सिषाधयिषा च साधयितुमिच्छा। सा च पर्वतो वहि नमानित्यत्र पर्वते वह्न यानुमितिर्जायतां, वह्यनुमितिर्जायतां, अशाब्दज्ञानं जायतामित्यादि नानाविधा ग्राह्या। एवमन्यत्रापि। सिषाधयिषासत्त्वेऽनुमित्युत्पादात् सिषाधयिषाविरहमात्र न पक्षतेत्यत आह सिद्ध्यभाष इति । सिद्धिश्च पक्षसाध्यवैशिष्ट्यनिश्चयो नतु साध्य-- वत्त्वप्रप्रकारकनिश्चयमात्रम् । तेनासत्यां सिषाधयिषायां साध्यविशेष्यकसिद्धिसत्त्वेऽनुमित्यनुत्पादः। सिषाधयिषां विनापि धनजितेन मेघानुमानात् सिषाधयिषामात्र न पक्षतेत्यत उक्त विरहेत्यादि। एबञ्च समवायसम्बन्धावाच्छिन्नप्रतियोगिताको यः सिषाधयिषाभावः स्वरूपसमवायैतदुमयसम्बन्धघटितसामानाधिकरण्यसम्बन्धेन तद्विशिष्टा या सिद्धिः समवायसम्बन्धावच्छिन्नप्रतियोगिताकस्तस्या अभावः पक्षतेति फलितम्। एवञ्च सिद्ध रसत्त्वे सिषाधयिषायां सत्यामसत्याञ्च पक्षता, सिद्धिसत्त्वेतु सिषाधयिषायां सत्यामेव पक्षता. असत्यां सिषाधयिषायां केवलसिद्धिसत्त्वे च न पक्षता सिषाधयिषाविरहविशिष्टसिद्धरनुमितिप्रतिबन्धकत्वादिति संक्षेपः ॥ ४७ ॥ For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127