Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ ७३ ] व्यापार इति । एतच्च प्रायिकत्वाभिप्रायेण । तेन स्मरणात्मकपरामर्शाद् यत्रानुमितिस्तत्र लिङ्गज्ञानाद्यसत्त्वादसाधारणकारणतया परामर्शस्यैवानुमानत्वमितिध्येयम् । परामर्श लक्षयति व्याप्तिविशिष्टपक्षधर्मताज्ञानमिति । व्याप्तिशिष्टप्रकारकारकपक्षविशेष्यकज्ञानमित्यर्थः। तेन वह्निव्याप्यधूमवानयमिति ज्ञानस्य पक्षवृत्तित्वानवगाहनेऽपि न क्षति न वा वहिव्याप्यो धूमो धूमवांश्च पर्वत इति समूहालम्बनेऽतिव्याप्तिः। ज्ञानपदं, निर्णयपरं,तेनसंशयव्यावृत्तिः । परामर्शमभिनीय दर्शयति यथेति । परामर्शोत्याहप्रक्रियां प्रदर्शयितुमाहादावित्यादि। सर्वत्र सहचारग्रहस्य न व्याप्तिग्राहकत्वं किन्तु व्यभिचारविरहसहकृतस्यैवेति सूचयितुं महानसादाविति। धूमे दृष्टे सतीति । तथाच लिङ्गदर्शनरूप प्रथमलिङ्गसम्पत्तिः। अतएव तृतीयलिङ्गपरामर्शेत्यत्र तृतीयपदमपि । व्याप्तिस्मरणमिति । पूर्वानुभूतव्याप्तिस्मरणमित्यर्थः। एतच्चद्वितीयलिङ्गमितिबोध्यम् ।
इदन्त्ववधातव्यम्-न सर्वत्र पक्षविशेष्यकपरामर्शादनुमितिः ; प्राचां मतेऽत्र वह्निव्याप्यधूम इत्याकारकपक्षविशेषणकपरामर्शादप्यनुमितेरम्युपगमादतः साध्यव्याप्यविषयतानिरूपितपक्षविषयताशालिनिश्चयत्वमेव परामर्शत्वं वाच्यम्। येतु विशिष्टवैशिष्ट्यावगाहिपरामर्शस्य नातुमितिकरणत्वं किन्तु हेतुमान् पक्ष इति प्रत्यक्षेण साध्यव्याप्यो हेतुरिति स्मरणेन च द्वाभ्यामेवानुमितिरिति वदन्ति तेषां शाब्दात्मकस्य स्मरणात्मकस्य वा विशिष्टवैशिष्ठ्यावगाहिपरामर्शस्य सत्त्वेऽनुमित्युत्यादानुपपत्तेरनुभवापलापापत्तिः कार्यकारणभाववाहुल्याद्गौरवञ्चेति । सिद्धयात्मकपरामर्शसत्त्वेऽ. प्यनुमित्युत्पत्तेराह पक्षतासहितेनेति । तेन संशयोत्तरप्रत्यक्षे नातिव्याप्तिः ।। ४६ ॥
॥ तर्कामृतम् ॥
व्याप्तिश्च हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यम् । न चायं संयोगवान्द्रव्यत्वादित्यत्राव्याप्तिः, प्रतियोगिव्यधिकरणहेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यमित्यर्थात् । पक्षता च सिषाधयिषाविरहकृतसिद्धयमावः ॥ ४७ ॥
॥ विवृतिः ॥ परामर्शघटकीभूतव्याप्तिस्वरूपं निरूपयतिहेतुसमानाधिकरणेत्यादि। समानमधिकरणं ययोरिति व्युत्पत्त्या साधिकरणनिरूपितवृत्तित्वं समानाधिकरणत्वम् । तथाच हेतोरधिकरणे वृत्तिर्योऽत्यन्ताभावस्तस्य यः प्रतियोगी तद्भिन्नं यत् साध्यं तदधिकरणनिरूपितवृत्तित्वं हेतोर्व्याप्तिरित्यर्थः। भवति च वह्निमान् धूमादित्यत्र धूमी हेतुः, वह्निः साध्यः, ततश्च घूमस्याधिकरणे पर्वतादौ वह्निर्नास्तीत्यन्ताभावस्या.
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127