Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ २ ] सिध्यतीति शङ्का निराकर्तुमाह तावतै वेत्यादि घटत्वप्रकारकज्ञानवानिति घटत्वप्रकारकज्ञाने घटान्यविशेष्यकत्ववाधात् तत्सहकारेण घटविशेष्यकत्वस्यापि सिद्ध . र्घटत्वप्रकारत्वावच्छिन्नघटविशेष्यकत्वसिद्धिरितिभावः। तस्येति। घटत्वप्रकारकज्ञानानुमित्यात्मकोक्तज्ञानस्येत्यर्थः। उक्तानुमितेः प्रामाण्यानुमित्यात्मकत्वे युक्तिमाह धर्मधर्मीत्यादि । तथा च धर्मप्रकारकत्वावच्छिन्नर्मिविशेष्यकत्वस्य प्रामाण्यपदार्थत्वात् 'अहं घटत्वप्रकारकझानवान्' इत्यनुमितेश्चोक्तरीत्या तथात्वात् प्रामाण्यानुमितिरपोतिभावः । अन्ये तु भट्टमते घटो घटत्ववद्विशेष्यकघटत्वप्रकारकज्ञानविषयो घटत्वप्रकारकज्ञानतावत्त्वात् इत्यनुमानप्रकारं वर्णयन्ति ।
प्रामाण्यस्य स्वतोग्राह्यत्वेऽनभ्यासदशायां घटज्ञानं प्रमा न वेत्याद्याकारकस्य सर्वानुभवसिद्धस्य संशयस्यानुपपत्तिर्गुरुमते प्राथमिकघटादिग्रहेण, मिश्रमते प्राथमिक ज्ञानानुव्यवसायेन, भट्टमते च प्राथमिकज्ञानानुमित्या, प्रामाण्यस्य निश्चितन्वात् । किञ्च ज्ञानस्य स्वप्रकाशात्मकत्वकल्पनेऽतिरिक्त ज्ञातताकल्पने च गौररं मानाभाव श्चेत्यादि दूषणं द्रष्टव्यम् ॥ ४५ ॥ ॥ * ॥ इति प्रत्यक्षनिरूपणविवृतिः ॥ * ॥
॥ तर्कामृतम् ॥ अनुमितिकरणमनुमानम् । अनुमितित्वं जातिः। व्यापारवत् कारणं करणम् । व्यापारश्च तज्जन्यत्वे सति तज्जन्यजनकः। हेतुज्ञानादि करणम्, परामर्शो व्यापारः । परामर्शश्च व्याप्तिविशिष्टपक्षधर्माताज्ञानम्, यथा 'वह्निसामानाधिकरण्यग्रहे सति 'धूमो वह्निव्याप्यः' इत्यनुभवो जायते, ततः कालान्तरे पर्वते धूमे दृष्टे सति व्याप्तिस्मरणं, ततश्च व्याप्तिविशिष्टवैशिष्ट्यज्ञानं 'वह्निव्याप्यधूमवानयम्' इति तृतीय लिङ्गपरामर्शः, पक्षतासहितेन तेन 'पर्वतो वह्णिमान्' इत्यनुमितिर्जन्यते ॥ ४६॥
॥विवृतिः । अथ प्रत्यक्षोपजीवकत्वसङ्गत्या प्रत्यक्षानन्तरमनुमानं निरूपयत्यनुमितिकरणमिति । अनुमानलक्षणस्यानुमितिघटितत्वादनुमितित्वं निर्वक्त्यनुमितित्वं जातिरिति । अनुमिनोमीत्यनुव्यवसायसिद्धिरितिभावः । करणलक्षणमाह व्यापारवदिति । करणलक्षणघटकोभूतव्यापारत्वं निरूपयति तज्जन्यत्व इति। स्वस्मिन्नतिव्याप्तिवारणाय सत्यन्तम् । परम्परया स्वजन्येऽतिव्याप्तिवारणाय विशेष्यदलम् । हेतुज्ञानादीति । विशेषज्ञानविधया कारणत्वस्य करणत्वनियामकत्वे हेतुज्ञानस्येव साध्यज्ञानादेरपि परामर्शे कारणत्वात् करणत्वापत्तिरत उक्तमादोति । तेन व्याप्तिधिय उपग्रहः । परामर्शो
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127