Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 79
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ७० ] ज्ञानत्वेन विशिष्टवैशिष्ट्यावगाहि बुद्धि प्रति च विशेषणतावच्छेदकप्रकारकनिश्चयत्वेन कारणत्वमिति ॥४३॥ ॥ तर्कामृतम् ॥ तत्र परतः प्रामाण्यग्रह इति नैयायिकाः। यथा आदौ 'घटः' इति व्यवसायः, ततः 'घटमहं जानामि' इत्यनुव्यवसायः, ततः 'प्रामाण्याप्रामाण्ये' इति कोटिद्वयस्मरणम्, अथ चतुर्थे 'इह ज्ञानं प्रमा न वा' इति प्रामाण्यसंशयः, ततो विशेषदर्शनानन्तरं प्रामाण्यग्रहः-इदं ज्ञानं प्रमा समर्थप्रवृत्तिजनकत्वात् ज्ञानान्तरवत् ।। ४४ ॥ ॥विवृतिः ॥ यथार्थातुभवनिष्ठ प्रामाण्यं स्वतोग्राह्य परतो वेति विप्रतिपत्तौ सयुक्तिकं नैयायिकमतमादाववतारयति तत्रेत्यादि । तत्रेति । विशिष्टज्ञाने इत्यर्थः। तेन निर्विकल्पकस्य प्रमात्वादिविरहेऽपि न क्षतिः। परत इति। अनुमानेनेत्यर्थः । प्रामाण्येति। तद्वद्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्वेत्यर्थः। तत्र प्रक्रियां प्रदर्शयति यथेत्यादि। अनुव्यवसाय इति । निर्विकल्पकभिन्नानुव्यवसायस्य सर्वानुभवसिद्धत्वादितिभावः। कोटि-द्वयस्मरणमिति । प्रामाण्यादेनियतज्ञानधर्मत्वाभावात्तदनुपस्थितौ तस्य ग्रहीतुमशक्यत्वादिन्द्रियसन्निकर्षाद्यभावेनानुभवासम्मवाच्च स्मरणात्मक. त्वानुधावनम् । इदं ज्ञानमिति । पूर्वोत्पन्न ज्ञानमित्यर्थः । तेनोक्तघटज्ञानस्येदानीमसत्त्वेऽपि न क्षतिः। प्रामाण्यसंशय इति । प्रामाण्याप्रामाण्यसहचरितज्ञानत्वादिरूपसाधारणधर्मदर्शनादिघटितसामग्रोवलेनेत्यर्थः। विशेषदर्शनेति । प्रामाण्यव्याप्यसमर्थप्रवृत्तिजनकत्ववत्तानिश्चयेत्यर्थः। अनन्तरं प्रामाण्यग्रह इति । तथाच व्यवसायोत्पत्तिषष्ठक्षणे प्रामाण्यानुमितिरितिभावः। विसम्वादिप्रवृत्तिजनकत्वस्य भूमेऽपिसत्त्वाद्वयभिचारापत्तेराह समर्थेति । तद्वद्विशेष्यकतत्प्रकारकेत्यर्थः । इदन्त्ववधातव्यं यत्र शुक्तिकायामिदं रजतमिति व्यवसायस्तत्राप्युक्तरीत्या षष्टक्षणे तज्ज्ञानेऽप्रामाण्यमनुमेयम् ।। ४४ ॥ विवृतिः ॥ स्वतः प्रामाण्यग्रह इति त्रयो मीमांसकाः। तत्र गुरुमते 'अयं घटः' इति ज्ञानं विषयमात्मनं ज्ञानप्रामाण्यञ्चगृह्णाति । मुरारिमिश्रमते 'अयं घटः' इति ज्ञानानन्तरं 'घटमहं जानामि' इत्यनुव्यवसायस्तै नैव प्रामाण्यग्रहः। भट्टमते ज्ञानस्यातीन्द्रियत्वेन ज्ञानमनुमेयं यथा तथा तद्वत्तिप्रामाण्यञ्च । तथाहि 'अयं घटः' इति ज्ञानानन्तरं घटे . ज्ञातता उत्पद्यते, तनो 'ज्ञातो मया घटः' इति ज्ञातताप्रत्यक्षं, ततो व्याप्यादिप्रत्यक्षा For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127