Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ ७१ ] नन्तरं ज्ञानानुमानं यथा-अहं घटत्वप्रकारकज्ञानवान घटत्वप्रकारकज्ञाततावत्त्वात् । तावतैव तस्य धर्ममिविषयकत्वेन प्रामाण्यानुमानम् ॥ ४५ ॥
|| * || इति प्रत्यक्षनिरूपणम् ॥ * ॥
॥ विवृतिः ॥ अथ प्रामाण्यस्य स्वतोग्राह्यत्वं वदतां मतमुपन्यस्यति स्वत इति। अत्र स्वतस्त्वं तदप्रामाण्याग्राहकज्ञानग्राहकसामग्रीजन्यग्रहविषयत्वम् । तादृशग्रहश्च गुरुमते व्यवसायो मुरारिमिश्रमतेऽनुव्यवसायी भट्टमते च ज्ञाततालिङ्गकानुमितिरिति वक्ष्यति । तत्रेति । मीमांसकानां मध्य इत्यर्थः। गुरुमत इति । प्रभाकरमतइत्यर्थः। ज्ञानमिति । व्यवसाय इत्यर्थः। तच्च गृह्णातीत्यत्रात्वेति । विषयमिति। घटादिकमित्यर्थः । आत्मानमिति । ज्ञातारं स्वम्बेत्यर्थः। तत्र ज्ञातृग्राहकत्वं नियमतः स्वग्राहकत्वञ्च स्वप्रकाशात्मकत्वादुपपद्यत इति भावः। एवञ्चोक्तज्ञाने घटत्ववद्विशेष्यकत्वावच्छिन्नघटत्वप्रकारकत्वस्य सत्त्वात् स्वप्रकाशत्मकेन तेन तद्ग्रहः सुघट इत्याशयेनाह ज्ञानप्रामाण्यञ्चेति । नचैवं तज्ज्ञाननिष्टप्रमेयत्वादिकमपि तेनैव ज्ञानेन गृह्यतामितिवाच्यं नियमत एतत्तितयग्राहकत्वस्यैवोपगमात् । गुरुमतेऽनुव्यवसायस्य निष्प्रयोजनकत्वेनाप्रामाणिकत्वादितिभावः । केचित्तु गुरुमते 'घटत्वेन घटमहं जानामि' इत्याकारक एव व्यवसायः ननु 'अयं घटः' इत्याकारकोऽत आत्मग्राहकत्वं तस्य सुलभमित्याहुः।
तेनैवेति । प्रथमज्ञानविषयकेनानुव्यवसायेनैवेत्यर्थः। प्रामाण्यग्रह इति । न च ज्ञानगोचरज्ञानस्यानुव्यवसायस्य विषयाविषयकत्वनियमात् कथं विषयघटितप्रामाण्यविषयकत्वं सङ्गच्छत इति वाच्यं एतन्मतेऽनुव्यवसायस्य विषयविषयकत्वनियतज्ञानविषयताकप्रत्यक्षात्मकत्वोपगमात् । ___भट्टमत इति। कुमारिलभट्टमत इत्यर्थः। अतीन्द्रियत्वेनेति । ज्ञानत्वेन प्रत्यक्षप्रतिवन्धकत्वे लाघबादितिभावः। प्रामाण्यञ्चेति । अनुमेयमित्यत्रात्वेति । ज्ञान-प्रामाण्ययोरनुमानप्रकारं प्रदर्शयितु भूमिकामारचयति तथाहीति । ज्ञाततोत्पद्यत इति । ज्ञातता चातिरिक्तः पदार्थः स्वरूपसम्बन्धविशेषो वा । ज्ञातताप्रत्यक्षमिति । तथाच लिङ्गदर्शनसम्पत्तिरिति भावः। व्याप्यादिप्रत्यक्षमिति । तथाच परामर्शसम्पत्तिरितिभावः। अत्र पूर्वं ज्ञातताज्ञानयो व्याप्तेः स्मरणमपि कल्प्यम् । प्रत्यक्षात्मकपरामर्शसम्भवे स्मरणात्मकपरामर्शकल्पनमयुक्तमिति सूचयितु प्रत्यक्षपदम् । घटत्वप्रकारकज्ञाततावत्त्वादिति । अत्र स्वाश्रयविषयकज्ञानवत्त्वसम्बन्धेन हेतुत्वं ग्राह्य, तेन न स्वरूपासिद्धिरितिबोध्यम् । नत्वेतावता ज्ञानानुमितावपि कथं प्रामाण्यानुमितिः
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127