Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 78
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ६६ ] महर्षिणा कणादेन 'असमाहितान्तःकरणा उपसंहृतसमाधयस्तेषाञ्च' इति । सिद्धान्तमुक्तावलीकारैस्तु युक्तयुञ्जानसंज्ञाभ्यां ते द्विविधा योगिनो व्यपदिश्यन्ते । तदुक्तं 'योगजो द्विविधः प्रोक्तो युक्तयुञ्जानभेदतः । युक्तस्य सर्व्वदा भानं चिन्तासहकृतोऽपरः ॥ इति । अत्र केचित् योगजसन्निकर्षेणापि योगिनाम - सीन्द्रियपदार्थ विषयकं प्रत्यक्ष न जन्यते किन्त्वैन्द्रियक विषयकमेवेतिवदन्तः 'यत्राप्यतिशयो दृष्टः स स्वार्थानतिलङ्घनात् । दूरसूक्ष्मादिबुद्धौ स्यात्तद्रूपे श्रीवृत्तिता' ॥ इत्याचार्यवचनमुदाहरन्ति ॥ ४२ ॥ ॥ तर्कामृतम् ॥ तत्र निर्विकल्पकं विशेष्य प्रकारादिरहितं वस्तुस्वरूपमात्रज्ञानम् । सविकल्पकं सप्रकारकम् । भासमानवैशिष्ठ्य प्रतियोगित्वं प्रकारत्वम् । यथा 'अयं घटः ' इत्यत्र अयं विशेष्यः, घटत्वं प्रकारः, भासमानवैशिष्ठ्यं तयोः समवायः, तस्य प्रतियोगिघटत्वम् सविकल्पकमेव विशिष्टवैशिष्ठ्यज्ञानं, यथा 'अयं दण्डी' इत्यत्र दण्डत्वविशिष्टस्य वैशिष्ठ्य पुरुषे भासते । अथ प्रक्रिया - तत्रादाविन्द्रियसन्निकर्षाद् 'घटघटत्वे' इति निर्विकल्कं ततः 'अयं घटः' इतिविशिष्टज्ञानम् ॥ ४३ ॥ ॥ विवृतिः ॥ प्रागुक्तं निव्विकल्पकादिकं लक्षयितुमाह तत्रत्यादि । तत्र द्विविधप्रत्यक्षमध्ये । लक्षणमाह विशेष्येत्यादि । निरूपकत्वसम्बन्धेन विशेष्यत्वादिशून्यं ज्ञानमित्यर्थः । तेन प्रकारताद्यवच्छेदकसम्वन्धेन प्रकारादिशून्यत्वस्य सविकल्पके सत्त्वेऽपि नातिव्याप्तिः । वस्तुस्वरूपेत्यादिकन्तु स्वरूपकथनमात्रम् । सविकल्पकं लक्षयति सप्रकारकमित्यादि । 'निरूपकत्वसम्बन्धेन प्रकारतादिविशिष्टं ज्ञानमित्यर्थः । निर्विकल्पका दिलक्षणघटकप्रकारत्वं निर्वक्तिभासभानेत्यादि । भासमानत्वं नाम ज्ञायमानत्वम् । वैशिष्ट्य - सम्बन्धः । विशेष्यादिकमभिनीय दर्शयितुमाह यथेत्यादि । इत्याकारकप्रत्यक्षे इत्यर्थः । तेन तथाविधशाब्दे घटत्वस्याप्रकारत्वेऽपि न क्षतिः । तस्य प्रतियोगीति । समवायसम्बन्धस्य प्रतियोगीत्यर्थः । नात्र घटत्वांशे घटत्वत्वं भासितुमर्हति अनुल्लि - ख्यमानजातेः स्वरूपतो भाननियमात् । तत्र प्रतियोगित्वादिकं स्वरूपसम्बन्धविशेषः । विशिष्टज्ञानस्येव विशिष्टवैशिष्ट्या गाहि ज्ञानस्यापि सविकल्पकत्वं निद्दिशति सविकल्पकमेवेति । एवकारेण निव्विकल्पकत्वव्यवच्छेदः । दण्डत्वविशिष्टस्येति । अत्र दण्डत्वं विनैव दण्डस्य भानं स्यादिति तु न शङ्कयं जात्यखण्डोपाध्यतिरिक्तपदार्थानां किञ्चिद्धर्म्म प्रकारेण भाननियमात् । इयांस्तु विशेषो यद्विशिष्टबुद्धि प्रति विशेषण For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127