Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 76
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ६७ ] शब्दमात्रवृत्तिशब्दत्वजातेः समवेतसमवायसम्बन्धोनैव ग्रहादाहेतरेति । गुणत्वादेरपि शब्दवृत्तिजातित्वादव्यावर्तकत्वान्मात्रपदम्। शब्दमात्रवृत्तिव्यक्तित्वादेः समवायेन ग्रहासम्भवादव्यावर्तकत्वाज्जातीति । शब्दत्वस्यगुणबृत्तिजातित्वात्तस्य च संयुक्तसमवेतसमवायसम्बन्धोन प्रत्यक्षासम्भवादितरात्तम् । गुणत्वादिजातेः सम्बन्धान्तरेणाग्रहान्न्यूनतापरिहाराय गुणपदम् । कर्मत्वादिजातेः शब्दमात्रवृत्तिजातीतरत्वेऽपिगुणावृत्तित्वात्सम्वन्धान्तरेणाग्रहाच्चरन्यूनत्वं परिहत्तुं कर्मपदम् । प्रमेयत्वादेःसमवायसम्बन्धाप्रतियोगित्वाद्वितीयजातिपदम्। संयुक्तसमवायसंसर्गकप्रत्यक्षविषयद्रव्यत्वादिजातेरपिशब्दमात्रवृत्तिजातीतरत्वादाह गुणेत्यादि । समवेतसमवायेनेति । गगणसमवेतशब्दे शब्दत्वादेःसमवायसत्त्वादितिभावः। जातित्वस्य द्रव्यत्वादिसाधारणत्वादाह शब्दवृत्तीति। प्रमेयत्वादेरपि शब्दवृत्वित्वाज्जातिपदम्। विशेषणतयेति । घटाभाववद्भूतलमित्यत्राभावस्य भूतलविशेषणत्वादिय॑ः। वस्तुतस्तु विशेषणतयेत्युपलक्षणं, तेन भूतले घटाभाव इत्यादावभावस्य विशेष्यत्वेऽपि न प्रत्यक्षत्वानुपपत्तिः। तदुक्त न्यायवात्तिककृभिः 'समवायेऽभावे च विशेष्यविशेषणभावः' इति। समवायस्य चेति चकारेण विशेषणतयेत्यस्य समुच्चयः। इन्द्रिय सम्बद्धघटादौ समवायस्य विशेषणत्वादितिभावः ॥ ४२ ॥ तर्कामृतम् ॥ । . अलौकिकः स यथा--ज्ञानलक्षणया सुरभिचन्दनमिति चाक्षुषंज्ञानम् । सामान्यलक्षणया घटत्वेन यावद्घटज्ञानम् । योगजधर्मेण योगिनां सर्वज्ञानम् ॥ ४२ ॥ ॥ विवृतिः ॥ अथालौकिकसन्निकर्षानुदाहर्तुमाहालौकिक इति । स इति । सन्निकर्ष इत्यर्थः। नतु सन्निकर्षत्वमोन्द्रियप्रतियोगिकत्वमेववाच्यं, तच्च संयोगादेः सङ्गच्छते घटाद्यनुयोगिकसंयोगादिनिरूपितप्रतियोगित्वस्य चक्षुरादौ सत्त्वात्, ज्ञानलक्षणादेस्तु चक्षुरादीन्द्रियप्रतियोगिकत्वविरहात् सन्निकर्षत्वं कथमुपपद्यत इति चेत्। उच्यते। संयोगस्य सन्निकर्षत्वात्तद्घटितेन्द्रियसंयुक्तविशेष्यकज्ञानप्रकारीभूतसामान्यात्मकसामान्यलक्षणप्रत्यासत्तेः परम्परया ज्ञानलक्षणयोगजयोश्च सन्निकर्षतायाः कथञ्चिदुपपद्यमानत्वेऽपि विशिष्टधीविशेषनियामकत्वरूपस्यैवात्र सन्निकर्षत्वस्योपगमाददोषः।। अत्रदं चिन्त्यते यद्यपि स्मरणाद्यत्मकज्ञानलक्षणस्य, घटत्वाद्यात्मकसामान्यलक्षणस्य, योगजधर्मात्मकस्य च सन्निकर्षस्येन्द्रियाजन्यत्वाद्व्यापारत्वविरहेणे न्द्रियस्यालौकिकप्रत्यक्षकरणत्वं नोपपद्यते व्यापारवत एव कारणस्य करणत्वनियमात् । न च परमार्थतः सामान्यविषयकज्ञानस्यैव सामान्यलक्षणप्रत्यासत्तित्वात्तयाणाभेव For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127