Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
. [ ६६ ] षड़ित्यर्थः। एतेनैकादशेन्द्रियवादो व्युदस्तो वागादेरिन्द्रियत्वे मानाभावात् । यथावास्यादेः करणत्वेऽपि च्छेत्तृकृत्यादिसहकारिणमन्तरेण च्छिदानुपधानं तथात्रा. पोत्याशयेनाह सन्निकर्षसहितानीति । तत्साहित्यन्तु तद्भिन्नत्वे सति तज्जन्यकार्यजनकत्वरूपं बोध्यम् । सन्निकर्षश्चेति। सन्निकृष्यते-सम्बध्यतेऽनेनेति सन्निकर्षः... सम्बन्धो विशिष्टधोविशेषनियामक इति यावत् । लौकिक इति । लौकिकत्वन्तुसंयोगादिषटकान्यतमत्वम् । एवमलौकिकत्वमपि ज्ञानलक्षणादित्रितयान्यतमत्वम् । __ सूचीकटाहन्यायेनादावलौकिकसन्निकर्षविभेजतेऽलौकिकस्त्रिविधइति। ज्ञानलक्षणेति । ज्ञानमेवलक्षणं यस्य स ज्ञानलक्षणः सन्निकर्षस्सत्पदार्थविषयकं ज्ञानमित्यर्थः। यद्यपि प्रत्यासन्तिपदमध्याहृत्य ज्ञानलक्षणेत्यादिस्त्रीलिङ्गनिदेशो युज्यते तथापि विशेष्यतयाभिहितस्य सन्निकर्षपदस्य पुंलिङ्गस्य सत्त्वादध्याहाराश्रयणमयुक्तमतो. ज्ञानलक्षण इत्यादिपुंलिङ्गपाठः करणीयः। सामान्यलक्षणेति। सामान्यं समानानां भावः, लक्षणं-स्वरूपं विषयो वा यस्य स सामान्यधर्मः सामान्यविषयकज्ञानरूपो वा इत्यर्थः। योगज इति। योगेन-यमनियमाद्यष्टाङ्गकेन जनितो योऽदृष्टविशेषः स एव सन्निकर्ष इत्यर्थः। एषामुदाहरणानि स्वयमेव वक्ष्यति ।। __ लौकिकसन्निकर्ष विभजते । लौकिकः सन्निकर्षः षड्विध इति । यद्यपि घटपटादिप्रतियोगिभेदेन संयोगादेरेव बहुत्वात् षड्विधत्वोक्ति नै सङ्गच्छते तथापि संयोगत्वा. दिना तेषामैक्यान्नदोषः। विधाषट्कंदर्शयति संयोगइत्यादि । सन्निकर्षषट्कग्राह्याण्युदाहरति संयोगेनेत्यादि । चक्षुरादेर्घटादिद्रव्येण सह संयोगादुक्तं संयोगेनेति । द्रव्यग्रह इति। महत्त्वोद्भूतरूपवद्रव्यप्रत्यक्षमित्यर्थः। संयुक्तसमवायेनेति । चक्षुरादिसंयुक्त घटादौसमवायसम्बन्धेनवर्तमानत्वादित्यर्थः। शब्दान्यगुणकर्मद्रव्यवृत्तिजातीनामिति । शब्दस्य शुद्धसमवायसम्बन्धेनैवग्रहाच्छब्दान्यत्वं गुणविशेषणम् । रूपादेः सम्बन्धान्तरेणाप्रत्यक्षत्वात् न्यूनत्वं स्यादतस्तद्वारणाय शब्दान्यगुणेति। तत्रापि शब्दान्यत्वस्य घटादिसाधारण्याद् गुणपदम् । द्रव्यमात्रसमवेतस्य कर्मणः सम्बन्धान्तरेण प्रत्यक्षासम्भावादाह कम्र्मे ति । गुणत्वादिजातेः संयुक्तसमवायसम्बन्धासम्भवाद्रव्यपदम् । गगणत्वादेः समवायसम्बन्धाभावाज्जातीति । द्रव्यत्वादेः सम्बन्धान्तरेणाप्रत्यक्षत्वाद्रव्येत्यादि। नच घटादिनिष्ठगुरुत्वादेरपि प्रत्यक्षं स्यादितिवाच्यं द्रव्यसमवेतप्रत्यक्षं प्रति गुरुत्वाद्यन्यतमत्वेन प्रतिबन्धकत्वोपगमात् । नच नच चक्षुः संयुक्त तन्तौ समवेतत्वात् संयुक्तसमवायसम्बन्धन पटस्यापि प्रत्यक्ष स्यादिति द्रव्यवृत्तितयाजातिमात्रप्रवेशोऽनुपपन्न इतिवाच्यं संयोगवदप्रतियोगिकत्वे सतीत्यनेन संयुक्तसमवायस्य विशेषणीयत्वात् । संयुक्तसमवेतसमवायेनेति। चक्षुरादिसंयुक्त घटादौ समवेतं यद्पादिकं तत्र समवायसम्बन्धोन विद्यमानत्वादित्यर्थः। शब्दमागेत्यादि।
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127