Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 73
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ६४ ) त्वप्रवेशः। प्रागभाववारणायचाविनाशित्वनिवेशः। शिवादित्यास्त्वनित्यप्रतियोगिकान्योन्याभावस्योत्यादविनाशशालित्वं मन्यन्ते। वस्तुतस्तु विनाश्यभावत्वं प्रागभावन्वं, जन्याभावत्वं ध्वंसत्वं, नित्यसंसर्गाभावत्वमत्यन्ताभावत्वं, तादात्म्यसम्बन्धा' वच्छिन्नप्रतियोगिताकाभावत्वमन्योन्याभावत्वमिति लघुलक्षणं, उक्तन्तुस्वरूपकीर्तन-- मात्रम् । अभावप्रत्यक्षे कारणमाह योग्यानुपलब्ध्येति। योग्यताविशिष्टानुपलब्ध्येत्यर्थः । योग्यताच प्रतियोगिसत्त्व प्रसञ्जनप्रसञ्जितप्रतियोगिकत्वरूपाबोध्या । इत्थञ्च गुरुत्वाद्यभावस्य न प्रत्यक्षं नवातमसाच्छन्नभूतलादिनिष्ठघटाभावादेश्वाक्षुषं भूतलादे. स्तमसाच्छन्नत्वात्तत्र घटादेरतीन्द्रियत्वाच्च गुरुत्वादेरापादयितुमशक्यत्वात् किन्तु जलादौ गन्धाभावादेर्घाणजमालोकसंयोगादिविशिष्टभूतलादौ घटभावादेश्चाक्षुषं भवत्येव तत्तत्स्य तस्य तेन तेनेन्द्रियेणापादपितुं शक्यत्वात् । एवञ्च तत्तदिन्द्रियजन्यानाहार्य तत्तत्संसर्गकतत्तत्प्रकारकोपालम्माभावस्तत्तदभाव प्रत्यक्षे हेतुरितिपर्य्यवसितम् । वस्तुतस्तु कस्यचित्संसर्गाभावस्य प्रत्यक्षेऽधिकरणयोग्यत्वं कस्यचिच्च प्रत्यक्षे प्रतियोगियोग्त्वं तन्त्रं वाच्यं, तेन स्तम्भादौ पिशाचत्वात्यन्ताभावस्य परमाण्वादौ महत्त्वाभावस्य च प्रत्यक्षत्वमुपद्यते । एवं संसर्गाभावविशेषप्रत्यक्षे योग्यानुपलब्धि विशेषोहेतुर्वाच्यः। एवमन्योन्याभावप्रत्यक्षेऽधिकरणयोग्यत्वमेव तन्त्रमुपेयम् । तथाचोक्तरोत्या पृथक् पृथक् कार्यकारणभाव उहनीयः फलवलादन्यथा व्यभिचारापत्तरितिदिक् । अन्यत्र ति। प्रतियोगिनोऽतीन्द्रियत्वेऽधिकरणस्य प्रतियोग्यापादनायोग्यत्वे वेत्यर्थः। अतीन्द्रिय इति । तथाचाभावप्रत्यक्षं प्रत्यतीन्द्रियप्रतियोगिकत्वमधिकरणस्य प्रतियोग्यापादनायोग्यत्वम्बा प्रतिबन्धकमिति भावः ॥ ३ ॥ ॥ ॥ इत्यभावनिरूपणविवृतिः ॥ ॥ ॥ तर्कामृतम् ॥ अथ प्रमा कथ्यते। सा चतुविधा प्रत्यक्षानुमित्युपमितिशाब्दभेदात् । तत्करणानि चत्वारि प्रत्यक्षानुमानोपमानशब्दभेदात् । तत्र प्रत्यक्षं द्विविधं निविकल्पक सविकल्पकञ्च ॥ ४० ॥ ॥विवृतिः ॥ पूर्व प्रमाऽप्रमाभेदेनानुभव वविध्यस्योक्तत्वादिदानोमवसरतः प्रमा निरूपयितुमाहाथ प्रमेति । प्रमात्वं नाम तदाश्रयम्मिकतत्प्रकारकानुभवत्वम् । यथा रजलादिधम्मिकरजतत्वादिप्रकारक इदं रजतमित्याद्यनुभवः प्रमा। तत्राश्रयपदेन सम्बन्धित्वपर्यन्तं विवक्षणीयं, तेनाश्रयाश्रितभावविरहेऽपि 'गविगोत्वम्' इत्यादि प्रमायां For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127