Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 72
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ६३ ] द्रव्यकर्मभिन्नत्वेसति जातिमत्त्वादितिभावः। किन्तु तेजोऽभाव इति । तमसोऽतिरिक्तत्वेऽनन्ताबयवतत्तद्ध्वंसप्रागभावादिकल्पनगौरवं स्यादितिभावः । किञ्चालोकासहकृतचक्षुर्ग्राह्यत्वेन तमसोरूपवत्तायाः कल्पयितुमयुक्तत्वातूरूपवद्रव्यचाक्षुषे आलोकस्यहेतुत्वादत एव कर्मवत्त्वादेरप्युपपादयितुमशक्यत्वादुक्तप्रनीतेर्भू मत्वात्। न च तम एव द्रवं तेजस्तु तदभाव इति कथं न स्यादिति वाच्यं तेजः साधर्म्यस्पोष्णस्पर्शवत्त्वस्य शुक्लरूपादे श्चप्नतीतेरुपपादयितुमशक्यत्वात् नचासौ प्रतीतिर्भू मात्मिकेति वाच्यं वह्नयादिना करादेहस्य प्रत्यक्षसिद्धत्वात् । किञ्चोत्तरकाले वाधज्ञानस्योत्पतस्यमानत्व एवं पूर्वप्रतीतेरप्रमान्वनियमादत्र च तादृशवाधज्ञानोत्पादस्याननुभवात् । किञ्च 'तमसाच्छन्ने तेजसा पश्यति' इत्यवाधिनप्रत्ययादभावे चाक्षुषहेनुताया वाघितत्वेन तेजस एव द्रव्यत्वं नतु तमस इति ध्येयम् । सुवर्ण तेज एवेति । सुवर्ण तै जसमसति प्रतिबन्धकेऽत्यन्तानलसंयागेऽप्यनुच्छिन्नद्रवत्वाधिकरणत्वात्, यन्नैवं तन्नैवं यथा पृथिवी, इत्याद्यनुमानेन सुवर्णस्य तैजसत्वसिद्ध रिति भावः। नच सुवर्णस्य तेजस्त्वे कथमुष्णानुपलब्धिरित वाच्यं पार्थिवस्पर्शेनोष्णस्पर्शस्याभिभवात् । कृत्यभाव इति । प्रवृत्त्यभाव इत्यर्थः। अतिरिक्तत्वे ध्वंसप्रागभावादिकल्पनगौरवापत्तेरितिभावः । कठिनत्वलघुत्वादेरपि संयोगविशेषाद्यात्मकत्वमभिप्रत्याह एवमिति ॥३८॥ || * || इत्यतिरिक्तपदार्थखाण्डनविवृतिः ॥ * ॥ ॥ तर्कामृतम् ॥ अभावो द्विविधः संसर्गाभावोऽन्योन्याभावश्च । आद्यस्त्रिविधः प्रागभावोध्वंसोऽत्यन्नाभावश्च । प्रागभावो बिनाश्यजन्यः । ध्वंसो जन्योऽविनाशी च। अत्यन्ताभावान्योन्याभावो त्वजन्यावविनाशिनौ। योग्यानुपलब्ध्याऽभावः प्रत्यक्षः। अन्यत्र त्वतीन्द्रियः ॥ ३६॥ ॥ विवृतिः ॥ संक्षेपतो भावपदार्थ निरूपणानन्तरमभावं निरूपयत्यभाव इति । त्रिविधइति । तथाचैतत्रितयान्यतमत्वं भेदभिन्नाभावत्वम्बासंसर्गाभावसामान्यलक्षणमिति बोध्यम् । प्रागभावं लक्षयति विनाश्यजन्य इति। विनाशित्वं नाम नाशप्रतियोगित्वम्, तावन्मात्रस्य लक्षणत्वे घटादावतिव्याप्तिरत उक्तम जन्य इति ।। ___ अत्र जन्यत्वं कार्यत्वमात्र, तदभाववानित्यर्थः। तावन्मात्र कृते गगणादावतिव्याप्तिरताह विनाशोति । ध्वंसं लक्षयति जन्य इत्यादि। घटादावतिव्यानिवारणायाविनाशोति । गगणादावतिव्याप्तिवारणाय जन्य इति । अत्यन्ताभावान्यो न्याभावयोरजन्याविनाशित्वादेकोकत्याहात्यन्ताभावेत्यादि । अत्र ध्वंसवारणायाजन्य. For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127