Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 70
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ६९ ] वादत्यन्तसंकीर्णानां परमाणुनां भेदकान्तरासत्त्वात् सर्गान्तरीयमुदतमभाषादिविभिन्न-जातीयवस्त्वारम्भकपरमाणुभेदकतयैकै कपरमाणुसमवेताः स्वतो व्यावृत्ता विशेषाः स्वीकरणीया इतिभावः । नचैकजातीययावत्परमाणुष्वेकविशेषाम्युपगमेनैवोक्तदीष-वारणसम्भवे कि प्रतिपरमाणुमेकै कविशेषेणेति वाच्यमेकविशेषस्य यावदाश्रितत्वानुपपत्तेरेकस्यान्यकार्य्यजनकत्वप्रसङ्गाच्च । न च तत्तत्परमाणुनिष्टमेकत्वमेव भेदकमस्तु कि विशेषेणेति वाच्यमेकत्वस्य व्यभिचारित्वात्तदेकत्वस्य भेदकताया वाच्यत्वात्तदेकत्वस्य च दुनिर्वाच्यत्वात् । इत्थञ्च विशेषाणां मिथो भेदसाधनाय विशेषान्तरमङ्गीकार्य्यमितिनिरस्तं तेषां स्वतो व्यावृत्तत्वात् । विशेषाणां प्रतिपरमाणुभेदेन भिन्नत्वे हेतुमाह तेषां वैधर्म्यव्याप्यत्वादिति । स्वतो व्याहत्तत्व-स्वाभाव्यादित्यर्थः । तथाच विशेषाणां मिथो विधम्मंत्वान्नदाश्रयीभूताः परमाणवोऽपि मिथो विधम्र्माण इतिभावः । नव्यास्तु यथा विशेषास्तवमते स्ववृत्तिधर्म्म मनपेक्ष्यैव स्वतो व्यावृत्तास्तथा मन्मते परमाणवोऽपि विशेषंविनैव स्वतोव्यावृन्ना इतिविशेषाख्य-पदार्थे मानाभावइति वदन्ति ॥ ३६ ॥ | * ॥ इति विशेषनिरूपण विवृतिः ॥ * ॥ ॥ विवृतिः ॥ अथ क्रमप्राप्तं समवायं लक्षयतिसम्बन्धिभिन्न इति । सम्बन्धिभिन्न इति । सम्बन्धित्वमत्र सम्बन्धिप्रतियोग्यनुयोगित्वरूपम् । सम्बन्धत्वञ्च विशिष्टधो विषयत्वरूपं ग्राह्यम् । तथाच सम्बन्धप्रतियोग्यनुयोगिमिन्नत्वे सति नित्यन्वे च सति सम्वन्धत्वं समवायत्वमितिपर्थ्यवसितम् । तत्र प्रथमसत्यन्तस्य व्यावृन्ति प्रदर्शयितुमाह तेन स्वरूपसम्बन्धस्येति । नित्याभावाद्यात्मकस्वरूपसम्बन्धस्येत्यर्थ । न च समवायवद्द्रव्यमितिप्रतीत्या समवाये - सम्बन्धप्रतियोगित्वभानादव्याप्तिरिति वाच्यं तत्र समवायेन द्रव्यत्वादिमद्रव्यमित्यर्थात् । नचानुभवविरोध इति वाच्यं कस्य समवायवदित्याकाङाया निवृत्त तत्र द्रव्यत्वादिभानस्यावश्यकत्वादन्यथा गुणत्वादिसमवायस्यापि तत्र भान-प्रसङ्गात् समवायस्यैकत्वादगुणत्वादिसमवाये गुणत्वव्याप्यत्वनियमस्याप्रयोजकत्वात् । द्वितीयसत्यन्तस्य प्रयोजनमाह संयोगस्येति । यदि च संयोगम्य समवायसम्बन्धप्रतियोग्यनुयोगित्वसत्त्वात् प्रथमसत्यन्तदलेनैव तद्वारणं सम्भवतीत्युच्यते तदा संयोगेन घटवद्भूतलमित्यादौ संयोगत्वादेः संसर्गनावच्छेदकविधयैव भानात् संयोगस्य न प्रतियोगानुयोगितयाभानं किन्तुसंसर्ग त्वेनैवेत्यदोषः । अत्र विशेष्यदलोपात्तसम्बन्धत्वं लक्षणघटक वैयर्थ्यात् किन्तु स्वरूपकीर्त्तनमात्रपरमितिध्येयम् । प्राञ्चस्त्वयुतसिद्धसम्बन्धः समवायः । अयुत सिद्धत्वञ्चासम्बद्धयोरविद्यमानत्वम् । एतेन संयोग- For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127