Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 69
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir वाधकम् । न च समवायस्यैकत्वाद्य यक्त रभेदइत्यनेनैव चरितार्थत्वमस्त्विनि वाच्यं तत्तत्प्रतियोगिकत्वतत्तदनुयोगिकत्वादिना समवायस्य नानात्वस्वीकारादिति नव्याः। प्रसङ्गतो जातिवाधकानुक्त्वावसरतो जातिलक्षणमाह नित्यत्वे सतीति । संयोगादावतिव्याप्तिवारणाय सत्यन्तम् । अत्र नित्यत्वं प्रागभावाप्रतियोगित्वं ध्वंसाप्रतियोगित्वम्बा, नतूभयाप्रतियोगित्वं निष्प्रयोजनककत्वात् । न च विभुद्वयसंयोगेऽति व्याप्तिरितिवापं विभ्वो; संयोगे मानाभावात् । गगणपरिमाणादावतिव्याप्तिवारणायानेकेति। अन्यन्ताभावादावतिप्नसङ्गवारणाय वृत्तित्वं विहाय समवेतस्वमिति । गगणादावतिव्याप्तिवारणाय विशेष्यदलम् । सामान्यानामनित्यत्वाप्रसिद्ध राह नित्यानीति । अतिन्द्रियवृत्तीनीति। परमाण्वादिवृत्तीनीत्यर्थः । प्रत्यक्षवृत्तीनीति । त्रसरेण्वादिवृत्तीनीत्यर्थः ॥३५॥ || * || इति सामान्यनिरूपणविवृतिः ॥ * || ॥ तर्कामृतम् ॥ नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः। ते च बहवो नित्या अतीन्द्रियाश्च । प्रलये परमाणूनां भेदाय ते स्वीक्रियन्ते । तेषां वैधर्म्यव्याप्यत्वात् ॥३६॥ ॥ * ॥ इति विशेषनिरूपणम् ॥ * ॥ ॥विवृतिः ॥ अथ क्रमप्राप्त विशेष निरूपयति नित्यद्रव्येत्यादि। अन्त्या इति । अन्तेव्यावर्तकानामवसाने भवन्तीत्यन्त्या इति व्युत्पत्त्या यस्य न व्यावर्तकान्तरमस्ति तत्त्वमत्र विशेषलक्षणंबोध्यम् । नित्यद्रव्यबृत्तीत्यंशस्तु परमाणुगगणादीनां विशेषाश्रयत्वप्रदर्शनाय, ननु लक्षणघटकतया, लक्षणे तत्प्रवेशे प्रयोजनविरहात । कणादसूत्रवृत्तिकारानुयायिनस्तु अत्रान्त्यपदस्य नित्यार्थकत्वंमन्यमाना नित्यत्वे सति नित्यद्रव्यवृत्तित्वं विशेषलक्षणमित्याहुः। तत्र जन्यज्ञानादावतिव्याप्तिवारणाय सत्यन्तम् । गगणादावतिप्रसङ्गवारणायविशेष्यदलम् । घटत्वादिजानावतिव्याप्तिवारणाय नित्यपदम्। ज्ञानत्वादिजातावतिव्याप्तिवारणायद्रव्यपदम्। वृत्तित्वञ्चसमवायसम्वन्धेन ग्राह्यम् । तेन कालिकेन घटत्वादेर्महाकालवृत्तित्वेऽपि नातिव्याप्तिः । तथापि तेषां मते आत्मत्वादावतिव्याप्तितादवथ्यम् । यदि च तद्वारणाय नित्यद्वया. वृत्तित्वादिविशेषणं लक्षणे प्रक्षिप्यते तदा त्वतिगौरवमिति ध्येयम् । केचित्तु जातिजातिमदभिन्नत्वे समवेतत्वं विशेषलक्षणं वर्णयन्ति । अथ विशेषपदार्थस्वीकारे युक्तिमाह प्रलयइत्यादि। अन्यदात्वन्त्यावयवित आरम्य द्वयणुकपर्य्यन्तानां तत्तदवयवभेदेन भेदस्य सिद्धत्वेऽपि प्रलये द्वयणुकादीनामभा For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127