Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ ५८ ] इत्याद्यनुगतप्रतीतेरेव मानत्वात् । नव्यास्तु प्रागभाववृत्तिप्रतियोगित्वान्यप्रतियोगित्वसम्बन्धेन यत्र ध्वंसोत्पादस्तत्र तादात्म्यसम्बन्धेन सत्, यन्नैवं तन्नै वम्, इत्यत्वयव्यतिरेकाभ्यां ध्वंससतोः सामानाधिकरण्यप्रत्यासत्या कार्यकारणभावावधारणाद् ध्वंसकारणतावक्छेदकतया सत्ताजातिः सिध्यतीति प्राहुः। सत्ताया द्रव्यगुणकर्म. वृत्तित्वात् केवलद्रव्यादिवृत्तिद्रव्यत्वाद्यखिलजात्यपेक्षयाधिकदेशवृत्तित्वाद्वयापकत्वमित्यर्थः। घटत्वाद्यपेक्षयान्यूनदेशवृत्तिजातेरप्रसित्वाद् घटत्वादेर्व्यापकत्वासम्भवादाह व्याप्यं घटत्वादीति। आदिना पटत्वादेः परिग्रहः। वस्तुतस्तु व्यापकत्वेन व्याप्यत्वेन च सामान्यस्य द्विधैव विभागः समुचितस्तयोरापेक्षिकतया द्रव्यत्वादावुपपादयितु शक्यत्वात् । अतएव 'सामान्यं द्विविधं परमपरञ्च' इत्युपष्कारकृतः।
वैनाशिकस्तु सामान्याख्यपदार्थे मानाभावः। अयं घट इत्याद्यनुगतप्रतीतिविषयनावच्छेदकत्वस्य घटादिपदप्रवृत्तिनिमित्तत्वस्य वा घटत्वादेातित्वासाधकत्वाद घटादीतरव्यावृत्तेरेवोक्तप्रतीतिविषयत्वाद् घटादिपदप्रवृत्तिनिमित्तत्वाच्च । किञ्च सामान्यवादिना घटत्वादेराश्रयो वक्तव्यः, स च न घटादिरुत्पत्तेः पूर्वमसत्त्वात् । नापि पटादिविरोधात्। न च पूवं घटाद्य त्पत्तिदेशावच्छेदेन वर्तमानं घटत्वादिकमुत्पन्नघटादिकमाश्रयतीति वाच्यं तथासति तदानीं तद्देशस्यापि घटत्वादिना व्यवहारप्रसङ्ग इत्यादि प्रलपन्ति । तन्न । अयं घट इत्यादिकाया भावमवगाहमानायाः प्रतीतेरितरभेदविषयकत्वाननुभवात्। घटमानयेत्यादौ घटादिपदश्रवणानन्तरमितरभेदादिकमनालोच्यैव कम्बुग्रीवादिमद्वस्त्वानयनदर्शनादितरभेदस्य प्रवृत्तित्वेगौरवाच्च । किञ्च नित्यं घटत्वादि सर्वत्रसदपि न घटादि व्यवहारोपपादक समवायेन घटत्वाद्याश्रयस्यैव घटत्वादिना व्यवहारात् । अन्यथा कालिकेन रूपाद्याश्रयत्वान्महाकालस्यापि रूपादिमत्तया व्यवहारः स्यात्। तथाचोत्पत्तिपूर्वकालावच्छेदेन काले कालिकेन ज्ञाने वा विषयितया वर्तमानं घटत्वादिमुत्पन्नघटादौ समवैतीत्येव युक्तम् । यथा घटात्यन्ताभावो नित्यः कालिकेन काले वर्तमानो भूतलादितो घटापसारणे तद्भूतलादिकमाश्रयतीति दिक् ।
असाधारणधर्मत्वाविशेषेऽपि गगणत्वादे र्जातित्वाभावाज्जातिवाधकान्निरूपपितु. मुदयनाचार्यकारिकामुद्धरति व्यक्तेरभेद इति । , व्यक्तेः- स्वाश्रयीभूतव्यक्तेः, अभेदः-एकत्वमित्यर्थः। तच्च गगणत्वादे र्जातित्वे वाधकमिति भावः। व्यक्तीनामननुगतत्वादनुगतप्रतीत्यनुरोधेनैव जातिरम्युपेयते । गगणादेश्चैकत्वेनैवानुगतप्रतीत्युपत्तौ गगणत्वादेर्जातित्वस्वीकारोऽनावश्यक इति तात्पर्य्यम् । न च घटादेरपि प्रत्येकमेकत्वस्य सत्त्वाद् घटत्वादेर्जातित्वं न स्यादिति वाच्यं स्वाश्रयसजातीयद्वितीयराहित्यस्याभेदशल्लेन विवक्षितत्वात्वात् । साजान्यञ्च स्वसमनियतधर्मवत्त्वेनग्राह्यम् ।
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127