Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
ममि प्रेत्योक्तं वल्लभाचायें: 'एतद्र पचतुष्कविवज्जितं कर्मजातोयमेव गमनम्' इति । यानि तु भूमण-रेचन-स्पन्दन-ऊर्द्ध वज्वलन-निर्यग्गमनादीनि कर्माणि सन्ति तानि तावद्गमानान्तमत्तत्वत्नातिरिच्यन्त इत्यविरोधः। तत्र भूमणं नाम विजातीयोत्तरसंयोगानुकूलं कर्म । गुरुत्वासमवायिकारणकं नैमित्तिकद्रवत्वववृत्त्यन्तरसंयोगानुकूलं कर्म रेचनम् । द्रवत्वासमवायिकारणकमुत्तरसंयोगानुकूलं कर्म स्पन्दनम् । वह्लादिसमवायिकारणकोर्द्ध वसंयोगविशेषानुकूलं कोर्द्ध वज्वलनम् । पवनादिसमवायि. कारणकविजातीयोत्तरसंयोगानुकूलं कर्म नियंगगमनमित्यादिकमूहनीयम् । तत्र भूमणत्वादयो गमनत्वव्याप्यजातिविशेषाः । कर्माणोति । तथाचोत्क्षेपणाद्यन्यतमत्वं कर्मत्वजातिमत्त्वम्बाकर्मसामान्यलक्षणमितिभावः । मूषलमुर्द्ध ध्वं गच्छतीत्यादि प्रतीत्यान्यथासिद्धानि उत्क्षेपणत्वादीनि नातिरिच्यन्तमित्याशङ्कामपनेतुमाहोत्क्षेपणत्वादीनि जातय इति । आदिनावक्षेपणत्वादेरूपग्रहः। तथाचोत् क्षिपामोत्यादिविलक्षणानुगतप्रतीत्या तेषां जातित्वसिद्धौ भेदकत्वं सिध्यतीति भावः। केचित्त कर्मत्वजातेः प्रत्यक्षसिद्धत्वेऽपि उत्क्षेपणत्वादिकं न जातिः किन्तूर्द्ध वदेशसंयोगफलकक्रियावच्छिन्नव्यापारत्वादिरूपम् । गमनत्वञ्च संयोगावच्छिन्नक्रियात्वरूपमित्यादुः ।
अथकर्माश्रयानिद्दिशति पृथिवीत्यादि। अत्र वृत्तित्वं समवायसम्वन्धेनैव वाच्यम् तेन कालिकादिसम्बन्धेन कर्मणः कालादिवृत्तित्वेऽपि न क्षतिः। अत्र यद्यपि कस्यचिदपि कम्मणो यावत्पृथिवी व्यादिवृत्तित्वं न सम्भवति किन्तु तत्तत्कर्मण एव तत्तत्पृथिव्यादिवृत्तित्वं तथापि कर्मत्वजातौ पृथिवीत्वाद्यवच्छिन्नाधिकरणनानिरूपितानिरूपकतावच्छेदकत्वं विवक्षणीयमित्पदोषः। सर्वेषां कर्मणां न प्रत्यक्षविषयत्वमित्यते आहातीन्द्रियवृत्तीनीति । परमाण्वादिवृत्तोनीत्यर्थः। प्रत्यक्षवृत्तीनीति । त्रसरेण्वादिवृत्तीनीत्यर्थः ॥ ३३ ॥
॥ तर्कामतम् ॥ अथ कर्मप्रक्रिया। संयोगेन नोदनास्थेनाक्षं कर्म जन्यते। द्वितीयादि वेगजन्यम्। क्रियातो विभागः। विभागान्पूर्वसंयोनाशः। तत उत्तरदेशसंयोगोत्पत्तिः । ततः कर्म विभागयो शः ॥ ३४ ॥
* इति कर्मनिनिरूपणम् *
॥ विवृतिः॥ संयोगेन नोदनाख्येनाद्य कर्म जन्य इति । नन्विदमनुपपन्नं 'कर्मजोऽपि द्विधैव परिकीर्तितः अभिवातो नोदनञ्च' इत्युक्ते !दनाख्यसंयोगस्यापि कर्मजन्य
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127