Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 68
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ५६ ] तेन गगणादे द्रव्यत्वादिना सजातीयत्वसत्त्वेऽपि न क्षतिः । न च गगणत्वादिसमनियतधर्मेण सजातीयस्याप्रसिद्धिरिति वाच्यं स्वप्रतियोगित्वस्वानुयोगित्वोभयसम्बन्धेन भेद विशिष्टान्यत्वस्याभेद सम्बन्धेन विवक्षितत्वात् । तथाच तद्घटों नेत्यादिभेदप्रतियोगित्वानुयोगित्वयो घटादौ सत्त्वाद्घटादे नभेदः किन्तु गगणादेरभेद एव कस्यचिदपि भेदस्य प्रतियोगित्वानुयोगित्वयोर्गगणादावभावात्, नहि तद्गगणं नेत्यादिभेदः प्रसिद्ध स्तद्गगणादेरप्रसिद्धत्वात् । तुल्यत्वमिति । यद्धर्माश्रया यद्धर्म्माश्रयान्यूनानतिरिक्तास्तत्त्वं स्वेतरजातिसमनियतत्वमितियावत् । तच्च तद्धर्म्मायो जतिद्वयत्वे वाधकम् । यथा घटत्वकल सत्वयोः करत्वहस्तत्वयोर्व्वा । तयोरेकतरधर्म्मस्तु जातिः स्यादेव । यथा घटत्वं करत्वम्बा जातिरेकतरेणैवानुगत प्रतीत्युपपत्तेः । सङ्करहति । परस्परात्यन्ताभावसमानाधिकरणयोरेकत्र समावेश इत्यर्थः । तदुक्तं 'अन्योन्यपरिहारेण भिन्नव्यक्तिनिवेशिनोः । सामान्ययोः समावेशो जातिसङ्कर उच्यते ' ॥ इति । सच भूतत्वमूर्त्तत्वादेर्जातित्वे वाधकः । तथाहि भूतत्वं विहाय मूर्त्तत्वस्य मनसि सत्त्वान्मूर्त्तवं विहाय भूतत्वस्यगणे सत्त्वात्तयोः परस्परात्यान्ताभावसामानाधिकरण्यमेकत्रसमावेशश्च क्षित्यादाविति । न च साङ्कर्य्यस्य जातिवाधकत्वे मानाभाव इति वाच्यं स्वसामानाधिकरण्यस्वाभावसामानाधिकरण्योभयसम्बन्धेन जातिविशिष्ट जातित्वाच्छेदेन स्वसमानाधिकरणाभावप्रतियोगित्वाभाव इति नियमस्यैव मानत्वात् । साङ्कर्य्यस्य जातिवाधकत्वानम्युपगमे तादृशनियमस्य भङ्गापत्तेः । नव्यानां मते तादृशनियमस्य निष्प्रमाणकत्वात् साङ्कर्य्यस्य, जातिवाधकत्वं नास्तीति ध्येयम् । अनवस्थितिरिति । अनवस्थाख्यतर्क इत्यर्थः । स चाप्रामाणिकानन्तपदार्थ - परिकल्पनया विश्रान्तिरूपः सामान्यत्वस्य जातित्वे वाधकः । तथाहि द्रव्यत्वपृथिवीत्वाद्याखिलजातिषु यदनुगतं जातित्वं वर्त्तते तस्य जातित्वाम्युपगमे जातित्वाख्यजातावपि जातित्वमम्युपेयं तस्य च निखिलतज्जातिवृत्तित्वत्तापि पुनर्जातित्वमित्येवं क्रमेणावस्थेति भावः । रूपहानिरिति । रूरस्य स्वतोव्यावर्त्तकत्वात्मकस्य इनिः — भङ्गः, विशेषत्वस्य जातित्वे वाधक इत्यर्थः । तथाहि जात्याश्रयस्य वस्तुनस्तज्जातिपुरष्कारेणैवेतरभेदसाधकत्व नियमाद्विशेषत्वस्य जातित्वाभ्युपरागे तेन विशेषत्वेन जात्थैव विशेषाणां व्यावर्त्तकत्वं वाच्वं, तथाच विशेषाणां यत् स्वतोव्यावर्त्तकत्वं - स्वेनेव रूपेण व्यावर्त्त - कत्वं - - जात्यनवच्छिन्नेतरभेदसाधकत्वं तद्भज्येतेनि भावः । असम्बन्धहति । असमवेतत्वमित्यर्थः । तच्च समवायत्वाभावत्वादेज्जतिवे For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127