Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 71
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org [ ६९ ] सम्बन्धसम्बन्धिनोर्व्वदरकुण्डाद्योरिव समवायस्य गुणगुण्याद्यारपि विश्लेषः स्यादित्यपास्तम् । Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir तत्सम्बन्धिनो सम्बन्धप्रत्यक्षंप्रति सम्बन्धाश्रययावद्वयक्तिप्रत्यक्षस्य कारणत्वात् समवायस्य चैकत्वाद् युगपद्भाविभूतसकलाश्रयप्रत्यक्षासम्भवात् समवायस्याप्रत्यक्षत्वमम्युपगच्छतां वैशेषिकणां मतसाधारण्येन समवायसिद्धौ प्रमाणमाहेहेति । प्रमाणमिति । 'इह घटे घटत्वम्' इतिवुद्ध विशिष्टवुद्धित्वेन विशेषणविशेष्यसम्बन्धविषयकत्वं वाच्यं स च सम्बन्धोऽत्राधेयत्वरूपोऽनुभवसिद्धः, तत्र च संयोगादिसम्बन्धावच्छिन्नत्ववाधात् समवायसम्बन्धावच्छिन्नत्बमम्युपेयम्, तथाच विशेषणतावच्छेदकसंसर्गतया समवायसिद्धिरितिभावः । प्रत्यक्षस्य प्रमाणत्वसम्भवेऽनुमानाश्रयणमयुक्तमितिवदतां नैयायिकानां मतमुदाहरति नैयायिकमतइति । प्रत्यक्षइति । समवायप्रत्यक्षे लाघवत इन्द्रियसम्बद्ध विशेषणताया एव हेतुत्वकल्पनाद्विशेषणतासम्बन्धेन समवायः प्रत्यक्षइति तेषामाशयः । संयोगादिवत् समवायस्य नानात्वकल्पने गौरवादाह एक इति । तथाच य एब द्रव्यत्वस्यसम्बन्धः समवायस्तस्य गुणत्वादीनां सम्बन्धत्वेऽपि द्रव्यत्वगुणत्वाद्योर्न साङ्कर्य्यमाधाराधेयभावस्य नियामकत्वाद्रव्ये गुणत्वादेर्गुणादौ च द्रव्यत्वस्याधिकरणताया वाधात् । अनित्यत्वे नानात्वस्य ध्वंसप्रागभावादेश्च - कल्पनया गौरवादाह नित्य इति ||३७|| ॥ * ॥ इति समवाय निरूपणविवृतिः ॥ * || ॥ तर्कामृतम् ॥ नन्वन्यान्यप्यन्धकारसुवर्णादीनि द्रव्याणि सन्ति, आलस्यादयो गुणा अपि सन्ति 1 - कथं नवैवेत्यादि । मैवम् । अन्धकारो न द्रव्यं किन्तु तेजोऽभावः । सुवर्णं तेज एव ।... आलस्यं कृत्यभावएव । एवमन्यदपि वोध्यम् ||३८|| ॥ || इत्यतिरिक्तपदार्थखाण्डनम् ॥ * ॥ ॥ विवृतिः ॥ भावत्वेन पदार्थ विभागस्य कृतत्वात् संक्षेपतो भावपदार्थ विचारमुपसंहर्त्तुमतिरिक्तपदार्थ खण्डनमवतारयति नत्वन्यान्यापीत्यादि । अन्धकारसुवर्णादीनीति | आदिना रजतादेरुपग्रहः । द्रव्याणीति । ' नमः खलु चलं नीलं परापरविभागवत् । प्रसिद्धद्रव्यवैधम्र्म्यान्नवम्यो भेत्तुमर्हति ॥ इत्युक्त र्गन्धाद्यमावेन पृथिव्यादिष्वनन्तर्भावान्तमसः, गन्धोष्णस्पर्श देरभावात्पीत रूपवत्त्वाच्च सुवर्णस्यातिरिक्तद्रव्यत्वसिद्धिरितिभावः । आलस्यादयइति । आदिना लघुत्वकठिनत्वादेः परिनहुः । गुणाइति । For Private And Personal Use Only For Private And Personal Use Only सम्बन्धत्वे

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127