Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 74
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ६५ ] नाव्याप्तिः । येन सम्बन्धेन यत्सम्बद्धित्वं तेन सम्बन्धेन तत्प्रकारत्वं वाच्यमतः संयोगेन घटवत्कपालमित्यादौ नातिव्याप्तिः। प्रमा विभजते सा चतुविधेति । विधाचतुष्टयं कोतयति ज्ञानत्वम् । उपमितित्वं नाम सादृश्यज्ञानकरणकज्ञानत्वम् । शाब्दत्वञ्च पदज्ञानकरणकज्ञानत्वम् । अथवा प्रत्यक्षत्वादिनो चत्वारि जातिविशेषाः। प्रमाप्रसङ्गात्प्रमाणानि निरूपयितुमाह तत्करणानीति। प्रमात्वावच्छिन्नकार्यतानिरूपितकरणतावन्तीत्यर्थः। तेन ज्ञानासाधारणकारणात्मशरीरादौ नातिव्याप्तिः । चत्वारीति तेनैतिह्यादेः प्रमाणत्वनिरासः। करणत्वन्तु फलायोगव्यवच्छिन्नव्यापरवत्कारणत्वं, नतु कारणतामात्रम्, तेन सन्निकर्षादौ नातिव्याप्तिः। प्रमाणचतुष्टयं नाम्ना कीर्त्तयति प्रत्यक्षेत्यादि। तथा चेन्द्रिय-च्याप्तिज्ञान-सादृश्यज्ञान-पदज्ञानानि प्रत्यक्षादिप्रमाणशब्दवाच्यानीत्यर्थः। प्रत्यक्षं विभजते तत्र ति। प्रमाणेषु मध्ये इत्यर्थः। निविकल्पकमिति । विशिष्टबुद्धित्वावच्छिन्नं प्रति विशेषणज्ञानत्वेन कारणत्वात् घट इत्यादि विशिष्टज्ञानजनकीभूतविशेषणज्ञानसम्पत्तये निविकल्पकं स्वीकरणीयम् । अन्यथा विशेषणज्ञानस्यापि विशिष्टज्ञानात्मकत्वे तदर्थमपि विशेषणज्ञानान्तरस्यावश्यकत्वेऽनया रोत्यानवस्थाप्रसङ्ग इतिभावः। तथाच घट इत्यादिविशिष्टज्ञानोत्पादतः पूर्व प्रकारत्वविशेष्यत्वानवगाहि 'घटघटत्वे' इत्याकारकं यज्ज्ञानं जायते तदेव निम्विकल्पकमितिबोध्यम् । तच्चातीन्द्रियम् । तस्य प्रत्यक्षविषयाताया उपपादयितुमशक्यत्वादितितात्यय॑म् । सविकल्पकमिति । यथा 'अयं घटः' इत्यादिज्ञानम् । एतयोर्लक्षणञ्च स्वयमेव वक्ष्यति ।। ४ ।। ॥ तामृतम् ॥ __ प्रत्यक्षकरणानि षड़िन्द्रियाणि भ्राणरसनचक्षुस्त्वक्श्रोत्रमनांसि। एतानि सन्निकर्षसहितानि प्रत्यक्षं जनयन्ति। सन्निकर्षश्च लौकिकोऽलौकिकश्च । अलौकिकस्त्रिविधः--ज्ञानलक्षणा सामान्यलक्षणा योगजश्च । लौकिकः षड़ विधः-संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणता चेति । संयोगेन द्रव्यग्रहः। संयुक्तसमवायेन शब्दान्यगुणकर्मद्रव्यवृत्तिजातीनां प्रत्यक्षम् । संयुक्तसमवेतसमवायेन शब्दमात्रवृत्तिजातीतरगुणकर्मवृत्तिजातीनां प्रत्यक्षम् । समवायेनशब्दस्य, समवेतसमवायेन शब्दवृत्तिजातीनाम्, विशेषणतयाऽभावस्य समवायस्य च प्रत्यक्षम् ।। ४१ ॥ ॥ विवृतिः॥ प्रत्यक्षप्रमाणपदार्थान् प्रदर्शयितुमाह प्रत्यक्षकरणानीत्यादि। पडिन्द्रियाणीति । घाणज-रासन-चाक्षुषत्वाचत्रौत्रमानसभेदेन प्रत्यक्षप्रमितेः षड़ विधत्वात्तत्करणान्यपि For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127