Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ ६८ ] परम्परयेन्द्रियजन्यत्वाद्वयापारत्वं सङ्गच्छते इति वाच्यं तथा सति परामर्शादेरपि परम्परयेन्द्रियजन्यत्वात्तेनेन्द्रियस्यानुमितिकरणनापत्तेः तथापीन्द्रियजन्यस्य संयोगस्य व्यापारत्वमुपगम्य तेनैवेन्द्रियस्य करणताया उपपादनीयत्वात् ।
सुरभि चन्दनमिति । सुरभिचन्दनमितिचाक्षुषज्ञाने सौरभस्य भानार्थ ज्ञानलक्षणः सन्निकर्षोऽभ्युपेय इतिभावः। तथाहि चन्दनचाक्षुषे जायमाने चन्दननिष्ठतया सौरभस्योपस्थितावपि सौरभांशे योग्यवृत्तिवृविशिष्टचक्षुःसन्निकर्षाभावेन तदुपस्थिते. श्चाक्षुषत्वाभावाद् घ्राणजत्वं मानसत्वम्बा वक्तव्यम् । सौरभोपस्थितिरत्रज्ञानलक्षणःसन्निकर्षः। तेन च सन्निकर्षेण सहकारिणा चक्षुरिन्द्रियं सुरभि चन्दनमिति प्रत्यक्षजनयति । न च चक्षुःसंयुक्त चन्दने समवेतत्वात् संयुक्तसमवायसम्वन्धेनैव सौरभस्य ग्रहसम्भवात्तदर्थमलौकिकःसन्निकर्षोनाश्रयणीय इति वाच्यं तत्रोक्तसम्बन्धस्य तच्चाक्षुषविषयतानियामकत्वानभ्युपगमादन्यथा लौकिकसन्निकर्षजन्यत्वेन तस्य तदंशे लौकिकत्वप्रसङ्गात् सौरभं पश्यामीत्यनुव्यवसायापत्तेः। न च स्मरणनिविकल्पकसाधारणसामान्यविषयकज्ञानस्यैव वस्तुगत्यासामान्यलक्षणसन्निकर्षताया अभ्युयेतव्यत्वादत्र च सौरभत्वरूपसामान्यविषयकज्ञानात्मकसामान्यलक्षणसन्निकर्षेण सौरभस्य भानसम्भवाज्ञानलक्षणसन्निकर्षः स्वीकरणीयो न स्यादितिवाच्यं तथासति सुरभिचन्दनमितिचाक्षुषे सोरभत्वांशेधन्तिरस्यागृहीततया स्वरूपतः सौरभत्वस्यसामान्यलक्षणसन्निकर्षेण भानासम्भवात्तद्भानार्थ मेव ज्ञानलक्षणसन्निकर्षस्यावश्यं स्वीकरणीयत्वात् । चाक्षुषं ज्ञानमिति । ज्ञानत्वस्य स्मृत्यनुमित्यादिसाधारण्यान्तत्र च ज्ञानलक्षणसन्निकर्षानपेक्षणादाह चाक्षुषमिति ।
सामान्यलक्षणसन्निकर्ष मुदाहरति सामान्यलक्षणयेत्यादि । बहिरिन्द्रियेण सामान्यलक्षणया ज्ञाने जननीये सामान्यस्वरूपं बहिरिन्द्रियसम्बद्धविशेष्यकज्ञानप्रकारीभूतं, मनसा तज्जनने तु ज्ञानप्रकारीभूतमिति बोध्यम् । वस्तुतस्तु इन्द्रियसम्बन्धं विनापि तादृशसामान्यस्य सत्त्वात् सामान्यलक्षणसन्निकर्षेण यावतां तदाश्रयानां ज्ञानापत्तिस्तत्तत्पटादिरूपसामान्यनाशे तत्तत् पटवतां यावतां भानानुपपत्तिश्चातः सामान्यविषयकज्ञानस्यैव सन्निकर्षत्वमुपेयं नतु सामान्यस्येति ध्येयम् । नचैवमनयोः सन्निकर्ष योरमेद इति वाच्यं आद्यस्य यद्विषयकं ज्ञानं तस्यैव सन्निकषं त्वात्, द्वितीयस्य तु यत्प्रकारकं ज्ञानं तदाश्रयाणां सन्निकर्षत्वादिति भेदस्य स्फुटत्वात् ।।
योगजसन्निकर्षमुदाहरति:योगजधर्मेणेत्यादि। सर्वज्ञानमिति । योगजधर्मानुगृहीतेन मनसा योगिनोऽणुगगणाद्यखिलपदार्थविषयकं ज्ञानं जन्यते इति भावः । ते च योगिनो द्विविधाः। तत्र केषान्ताबदसमाहितान्तःकरणानां ध्यानेन सर्वविषयाधिगमः। अपरेषान्तूपसंदृतसमाधीनां सर्वदा सर्वविषयकप्रत्यक्षम् । तदुक्त
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127