Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
1
७५ ]
॥ तर्कामृतम् ॥
अनुमानं द्विविधं स्वाथं परार्थञ्च । तत्र परार्थं पञ्चावयवसाध्यम् । अवयवाश्च प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि । 'यथा 'अयं वहि नमान्' 'घूमात्' 'यो यो' 'धूमवान् स हि नमान् यथा महानसम्' 'वहि नव्याप्यधूमवानयम्' 'तस्माद्वहि नमान्' इति । स्वार्थं च स्वीयव्याप्त्यादिज्ञानसाध्यं, न तत्र परप्रतिपन्न्यर्थ मेवमाहशब्दप्रयोगम् ॥ ४८ ॥
॥ विवृतिः ॥
अनुमानं निरूप्य तद्विभजतेऽनुमानं द्विविधमिति । स्वार्थमिति । स्वकीयानुमितिजनकमित्यर्थः । परार्थमिति । परकीयानुमितिजनकमित्यर्थः । परप्रतिपादनस्य शब्दप्रयोगसाध्यत्वात्प्रतिज्ञा दिपञ्चवाक्यप्रयोगस्यावश्यकतया प्रयुक्तः पञ्चभिस्तै रेकवाक्यतापन्नैः स्वार्थविषयकः शब्दबोधो जन्यते, ततश्च तेन सहकारिणा मनसा मध्यस्थस्य चरमपरामर्श उत्पाद्यत इति परार्थानुमानक्रममभिप्रेत्याह पञ्चावयवसाध्य मिति । पञ्चपदं दशावयववादादिव्युदासार्थ जिज्ञासादेरवयवत्वे मानाभावादित्यर्थः । अवयवत्वञ्च न्यायान्तर्गतत्वे सति प्रतिज्ञाद्यन्यतमत्वादिरूपम् । अवयवान् विमजते प्रतिज्ञेत्यादि । तत्र केवल साध्यवत्पक्षबोधकवाक्यत्वं प्रतिज्ञात्वम् । पञ्चम्यन्तलिङ्गप्रतिपादकवचनत्वं हेतुत्वम् । प्रकृतसाध्यसाधनव्याप्तिप्रतिपादकवाक्यत्वप्रकृतपक्षधर्मकप्रकृतसाध्यव्याप्तिविशिष्टप्रकृत हेतुमत्त्वप्रकारक बोध
I
मुदाहरणत्वम् ।
क्रमशः
जनकवाक्यत्वमुपनयत्वम् । प्रकृतसाध्यव्याप्यप्रकृतसाधनज्ञानज्ञाप्यप्रकृतसाध्य वत्प्रकृतपक्षबोधकवाक्यत्वं निगमनत्वम् । सर्व्वत्र न्यायान्तर्गतत्वनिवेशान्नोदासीन वाक्येष्वतिव्याप्तिः । दिङ मात्रमिदमुक्तं विस्तरस्तु तत्त्वचिन्तामण्यादावनुसन्धेयः । पञ्चवाक्यान्यभिनीय दर्शयति यथेत्यादि । स्वयं स्वार्थादिपदार्थस्यानुक्तत्वादाह स्वार्थञ्चेत्यादि । व्याप्त्यादीत्यादिना साधनादेः परिग्रहः । स्वार्थानुमाने वाक्यपञ्चकप्रयोगस्य निष्प्रयोजनकत्वादाह न तत्रत्यादि । तत्र – स्वार्थानुमाने । परप्रतिपत्त्यर्थं मध्यस्थस्य परामर्शोत्पादार्थम् । एवं उक्तप्रकारम् । शब्दप्रयोगं - पञ्चवाक्यप्रयोगं, न आह इति योजना | स्वार्थानुमाने प्रतिपित्सोर्मध्यस्थस्य चाभावादितिभावः ॥ ४८ ॥
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
॥ तर्कामृतम् ॥
तच्चानुमानं त्रिविधं केवलान्वयिकेवलव्यतिरेक्यन्वयव्यतिरेकिभेदात् । यत्र साध्यव्यतिरेको न कुत्राप्यस्ति स केवलान्वयी, यथा 'घटोऽभिधेयः प्रमेयत्वात्' इत्यत्राभिधेयत्वस्य साध्यस्य व्यतिरेको न कुत्राप्यस्ति । यत्र साध्यप्रसिद्धिः पक्षातिरिक्ते
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127