Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 66
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ५७ ] त्वेनाद्यकर्मजनकत्वाभोगात् । नच नोदनजनकर्मार्थ नोदनान्तरमुपेयमितिवाच्यमनवस्थाप्रसङ्गात् नोदनजनितकर्मण आद्यत्वानुपपत्तेश्च। मैवम् । अत्र नोदनपदेन कर्माजन्यस्य विजातीयनोदनस्य विवक्षितत्वात् । निक्षिप्तशरादिनिष्ठद्वितीयादिक्रियाया असमवाय्यन्तराभावादाह वेगजन्यमिति । कर्मविभागयो नि शइति । तथाच कर्मोत्पत्तिपञ्चमक्षणे कर्मणो विभागस्य च नाश इतिभावः। नच स्वोत्पादस्य स्वजनकना शस्य च द्वयोयुगपद्विरुद्धत्वाद्विभागस्योत्पत्तये कर्मणो द्वितीयक्षणे नाशाम्भ वेऽपि तृतीयक्षणे चतुर्थक्षणे वा नाशः कुतो न स्यादिति वाच्यं कर्मणा बिना विभागमात्रण पूर्वसंयोगनाशस्य पूर्वसंयोगनाशमात्रण वोत्तरसंयोगस्य चोत्पत्तुमशक्य. त्वात् ॥ ३४॥ ॥ * ॥ इति कर्मनिरूपणविवृतिः ॥ * ॥ || तर्कामृतम् ॥ सामान्यं त्रिविधं व्यापकं व्याप्यं व्याप्यव्यापकं च । व्यापकं सत्ता, व्याप्यं घटत्वादि, ब्रव्यत्वादि व्याप्यव्यापकञ्च। "भक्तेरभेदस्तुल्यत्वं सङ्करोऽव्थानवस्थितिः। रूपहानिरसम्बन्धो जातिवाधकसंग्रहः" ॥ नित्यत्वे सति अनेकसमवेतत्वमिति सामान्यलक्षणम् । सामान्यानि नित्यान्येव । 'अतीन्द्रियवृत्तीन्यतीन्द्रियाणि । प्रत्यक्ष वृत्तीनि प्रत्यक्षाणि ॥ ३५ ॥ ॥ * ॥ इतिसामान्यनिरूपणम् || * || ॥ विवतिः॥ अथ क्रमप्राप्तं सामान्यं निरूपयितुमाह सामान्यमिति लक्ष्यनिद्देशपरम् । तदर्थश्चसमानानां-मिथो भेदवत्त्वे सति एकधर्मवतां, भावः-मिथोऽन्योन्याभावसमानाधिकरणो धर्म विशेष इति । लक्षणन्तु नित्यत्वे सतीत्यादिना वक्ष्यति । अथवा सामान्यपदस्योक्तनिरूक्तिरेव लक्षणः, नित्यत्वे सतीत्यादिकन्तु तस्यैव निष्कर्षः। तेन सामा. न्यस्य सामान्यलक्षणमनमिधाय त्रिविधमित्यनेन विशेषविभजनमनुचितमितिनिरस्तम्। विभजते त्रिविधमिति । विधात्रयं दर्शयति व्यापकमित्यादि । व्यापकत्वमधिकदेशवृत्तित्वम् । व्याप्यत्वञ्च न्यूनदेशवृत्तित्वम् । न्यूनत्वाधिकत्वयोरपेक्षाबुद्धि विशेषविषयत्वरूपन्वादापेक्षिकत्वं बोध्यम् । तेनानुगतन्यूनाधिकभावविरहेऽपि न क्षतिः । व्याव्यव्यापकत्वञ्च । अधिकदेशवृत्तित्वे सति न्यूनदेशवृत्तित्वरूपम् । तच्च सत्तापेक्षया न्यूनदेशवृत्तित्वात् पृथिवीत्वाद्यपेक्षयाधिकदेशवृत्तित्वाच्च द्रव्यत्वादेरुपपद्यते । लक्ष्यमाह व्यापकं सत्तेति । न च सत्ताया जातित्वे मानाभाव इति वाच्यं 'द्रव्यं सत्' 'गुणः सन्' For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127