Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ ५४ ] संस्कारौ प्रति तद्विषयकानुभवत्वेनैव कारणत्वं नतु तद्विषयकज्ञानत्वेन, अतोऽत्र ज्ञानपदमनुभवपरमितिवर्णयन्ति । अत्र विशिटज्ञानध्वंसेऽति व्याप्तिवारणाय स्मृतिजनकत्वे सतीति विशेषणं देयम् । ... तृतीयं संस्कारमाह स्थितिस्थापकेति । अन्यथाकृतस्य वृक्षशाखादेः पुनस्तदवस्थापादनजनकतावच्छेदकतया सिद्धो जातिविशेषः। स्थितिस्थापकत्वम् । कारणगुणेत्यादि। कारणगुणप्रक्रमजन्यत्वपदार्थः प्राङ निरूपितो द्रष्टव्य ।।
गुरुत्वोत्पाद प्रक्रियामभिधन्तें गुरुत्वमिति। आद्यपतनासमवायिकारणं गुरुत्वमित्यन्नम्भट्टाः। गुरुत्वत्वञ्च जातिविशेषः।
सांसिद्धिकद्रवत्वस्य विशेषगुणत्वात्तद् त्पादप्रक्रियायाः प्रागभिहितत्वान्नैमित्तिकववत्वोत्पत्ति निरूपयितुमाह नैमित्तिकमिति । निमित्तविशेषजन्यमित्यर्थः। तदेव दृष्टान्तेनोपपादयति गान्वित्यादि। नैमित्तिकद्रवत्वत्वं जातिविशेषः ।
स्नेहस्य विशेषगुणत्वेऽपि पृथिव्यवृत्तित्वात् पृथक्तया तदुत्यादप्रक्रियामाह स्नेह इति । 'चूर्णादिपिण्डीभावहेतुर्गुणः स्नेह इत्यन्नम्भट्टाः ॥ ३२ ॥
॥ तर्कामृतम् ॥ शब्दस्त्रिविधः संयोगजो विभागजः शब्दश्चेति । आद्यो भेरीदण्डसंयोगन्यः । द्वितीयो वंशादिदलद्वयविभागन्यः। तृतीयस्तु संयोगेन चाद्यशब्दे जनिते तेन शब्देन निमित्तवायुसहकृतेन वीचितरङ्गव्यायेन कदम्बगोलकन्यायेन वा जन्यते ॥ ३२ ॥
* इति। ॥ गुणनिरूपणम् ।। .
॥ विवृतिः ॥ - शब्दत्वावच्छिन्नोत्पादकत्वस्यै कत्रासम्भवाच्छब्दं विभजते शब्द इति। यद्यपि ध्वनिवर्णभेदेन शब्दस्य द्वै विध्यं वक्तुमुचितं तथाप्युत्यादप्रक्रियाप्रदर्शन कौशलाय तथा विभागः कृतः। संयोगज इत्यादि। अत्र साक्षात् संयोगादिजन्यत्वं विवक्षितम् । तेन शब्दजशब्दस्य परम्परया संयोगादिजन्यत्वेऽपि संयोगजत्वादेर्न विभाजकत्वानुपपत्तिः। भेरीदाण्डसंयोगज इति । अत्रभेरीदण्डसंयोगस्य निमित्तत्वं भेाकाशसंगस्य चासमवायित्वं द्रष्टव्यम् । वंशादिदलद्वयेत्यादि। आदिना काष्ठादेरुपग्रहः। अत्रापि तादृशविभागस्य निमित्तत्वं दलद्वयाकाशविभागस्यचासमवायित्वमितिबोध्यम् । तृतीय स्त्विति । जन्यत इति परेणान्वयः । संयोगेन चेति । अत्र चकारो वार्थे । तेनै कस्मिन् शब्दे संयोगविभागोभयजन्यत्वविरहेऽपिन क्षतिः । तेन शब्देनेति । आदिमशब्देनेत्यर्थः। अत्रचादिमशब्दस्य द्वितीयशब्दं प्रति, द्वितीयादिशब्दस्य च तृतीयादिशब्दं प्रत्यसमवायित्वमवधेयम् । स्वयमेव निमित्तकारणं दर्शयति निमित्तवाय्विति । यद्यपिकालादेरपि
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127