Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 62
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ५३ ] मधिकृत्याभिहितस्य पितृलोकावाप्निरूपफलस्यानुपपन्निरभिषेकस्याशुतरविनाशित्वात् । तथाहि महाभारते 'तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः। अश्वमेधमवाप्नोति पितृलोकञ्चगच्छति' इति। नचाभिषेचनाहेजलसंयोगादिध्वंसस्यैव व्यापारत्वसास्तां किमत्तरा धर्म कल्पनयेनिवाच्यं गौरवप्रसङ्गात् स्वर्गादिधारापत्तेः कर्मनाशाजलस्पर्शादिनाश्यत्वानुपपत्तेश्च । तथाहि 'कर्मनाशाजलस्पर्शात् करतोयाविलछनात्। गाण्डकीवाहुतरणात् धर्म:क्षयति कीर्तनात्' । इति ।। अधर्म निरूपयितुमाहाधर्म इति । अधर्मत्वं दुःखजनकतावच्छेदकतयासिद्धजातिविशेषरूपम्। तत्र कारणमाह श्रुतिनिषिद्धमिति। श्रुतिपदमुक्तार्थकम् । तथाच श्रुत्या निषिद्ध --अनिष्टसाधनन्वेन बोधितं यद्ब्राह्मणइननादिकं तदाचरणरूपनि मित्तकारणजन्य इत्यर्थः अधनिभ्युपगमे ‘य इह कपूयचरणा अभ्याशोह यत्ते कपूयां योनिमापद्ये रन् श्वयोनि वा शूकरयोनि वा चाण्डालयोनि वा' इत्यादिश्रु त्याभि हितश्वादि-योनिप्राप्तेरनुपपत्तिरिति द्रष्टव्यम् । अथात्मवृत्तिगुणोत्पादप्रक्रियामुपसंहत्तु भावनाख्यसंस्कारं निरूपयितुं संस्कारत्वावच्छिन्नानां मध्ये सूचीकटाहत्यायेनादौ समुद्दिष्ट वेगं निरूपयति वेगाख्य इति । वेगत्वञ्च जातिविशेषः। तत्र कारणं प्रदर्शयति आद्य त्यादि। द्वितीयादि क्रियाया वेगाजनकत्वादाद्य ति । आदिमशब्दादेरपि वेगाजनकत्वादाह क्रियेति । आद्याक्रियाजन्यत्वस्यतद्ध वंसादावपि सत्त्वादाह द्वितीयेत्यादि विशेष्यदलम् । तत्र च क्रियात्वस्यादिमक्रियायामपि सत्त्वान्नस्याश्चवेगाजन्यत्वाह द्वितीयेति । आदिना तृतीयादिक्रियायाः परिग्रहः। अत्रचाद्यक्रियायावेगं प्रति वेगस्य च द्वितीयादि क्रियां प्रत्यसमवायिकारणत्वमवधेयम् । क्वचिद्व गविशिष्टेन कपालेन घटे वेगजननस्य प्रत्यक्षसिद्धत्वाद्वेगस्यासमवायितया वेगजनकत्वमपि बोद्धव्यम् । नच वेगास्थ संस्कारे मानाभाव इति वाच्यं वेगानम्युपगमे कर्मणः कान्तरप्रतिबन्धकत्वस्वाभाव्यात पूर्वकर्मनाशस्यौत्तरकर्मोतपादस्य चानुपपत्तेः। वेगस्य द्वितीयादिक्रियाजनकत्वं दृष्टान्तेनोपपादयति यथा वेगेनेत्यादि । ___द्वितीयं संस्कारं निरूपयति भावानाख्य इति । भावनात्वञ्च स्मृतिजनकतावच्छेदकतया सिद्धजाति विशेषः । निविकल्पकस्य भावनाजनकत्वविरहादाहविशेष्टेति । उपेक्षानात्मकप्रकारनाविशेष्यताशालिज्ञानजन्य इत्यर्थः। तेनोपेक्षात्मकविशिष्टज्ञानस्य भावनाजनकत्वविरहेऽपि न क्षतिः नचानुभवस्यैव भावनाजनकत्वा. दत्र ज्ञानजन्यत्वनिवेशोऽसङ्गत इति वाच्यं नव्यमते स्मृतेरपि भावनाजनकत्वात् । तदुक्त' 'जायते च पुनः पुनः स्मरणादृढ़तरः संस्कारः' इति । प्राञ्चस्तु द्याप्यधर्मपुरब्दारेण कारणत्वसम्भवे व्यापकधर्मस्यान्यथासिद्धिनिरूपकत्वात्तद्विषयकस्मृति For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127