Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 60
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ५१ ] यद्यपि तादृशजन्यत्वस्यैव दुःखलक्षणत्वं सम्भवति तथापि लाघवाद्दुःखत्वजातिमत्त्व लक्षणं बोध्यम्। साच जातिरहं दुखोत्याद्यनुव्यवसायसिद्धा। सुखाभावास्य ज्ञानविशेषस्य च दुःखत्वमुपेयिनो भान्ताः प्रागुक्तदिशा निरसनीयाः। केचित्त्वक्षपादः प्रमेयसूत्र सुखस्यानभिधानाद्दुःखाभिन्नत्वमिच्छन्ति। तन्मन्दम् । नयनप्रसादमुखमालिन्याद्योः कार्ययोभैदेन सुखदुःखयोर्भेदात् स्त्रकचन्दनफणिकण्ठकादिभ्यां धर्माधर्माभ्याञ्च विजातीभ्यां जनितयोस्तयोव्वैजात्यस्यावश्यकत्वाच्च । यत्युनरक्षपादैरनमिधान तत्तु वैराग्ययोगितया सुखस्यदुः खाविभाविनाभावित्वसूचनायेति ध्येयम् । ___ इच्छां निरूपयतीच्छेति । कारणप्रदर्शनमुखेन लक्षणानिधित्सयादेष्ट त्यादि । इष्टत्वञ्च ममेदमिष्टमित्यनुभवसाक्षिकविषयताविशेषः। इष्टसाधनताज्ञानजन्यत्वञ्च चिकीर्षाद्यसहकृतस्वनिष्ठसमवाय सम्बन्धावच्छित्रजनकतानिरूपितजन्यत्वम् । तेन प्रवृत्त्यादौ स्वध्वंसे च नातिव्याप्तिः। वस्तुतस्त्विदमुपायेच्छायामेव सम्भवति, फलेच्छायामिष्टसाधनता •धीनिरपेक्षफलज्ञानस्य हेतुत्वात् । तथाच फलोपायविषयकत्वभेदेनेच्छाद्वै विध्यमिति बोध्यम् । तदुक्तं 'निदु:खत्वे-सुखेच्छा तज्ज्ञानादेव जायते इच्छातु तदुपाये स्यादिष्टोपायत्वधोर्यदि' ॥ इति । उभयसाधारणलक्षणन्तु इच्छात्वजातिमत्त्वम् । द्वषं निरूपयति द्वषइति । अनिष्ट त्यादि । अत्रापिस्वध्वंसे निवृत्त्यादौ चातिप्रसङ्गवारणाय जन्यत्वं पूर्ववन्निष्कर्षणीयम् । एवमुत्तरत्रापि । लक्षणन्तु द्वेषत्वजातिरेव। साच निवृत्तिजनकतावच्छेदकतया सिद्धा वेदितव्या। ___ प्रयत्नं निरूपयितुमाह कृतिरिति । प्रयत्न इत्यर्थः । विभजते त्रिविधेति । तथा चैतत्त्रितयान्यतमन्वं यत्नत्वजातिमत्त्वम्वा लक्षणमितिभावः । विधात्रयमध्ये प्राधान्यादादौ जीवनयोनियत्नं निद्दिशति जीवनेति । जीवनस्य-प्राणसञ्चारस्य, योनिः कारणीभूतः, यो यत्नस्तत्स्वरूपेत्यर्थः । तस्यातीन्द्रियत्वेऽपि प्राणसञ्चाररूपकार्यानु मेयत्वम् । तथाहि प्राणसञ्चारः प्रयत्नसाध्यः कार्यत्वाद् घटवादित्यनुमानेनेतरप्रयत्नसाध्यत्ववाधात्तत् सिद्धिः। वस्तुतस्त्वदृष्टविशेषप्रयोज्यात्मनः संयोग विशेषात्मककेन जीवनेनादृष्ट वशेषेषण वाधिकश्वासादिरूपस्य प्राणसञ्चारस्योपपत्ते |वनयोन्याख्यापन्ने मानाभावं इति नवीनाः। तल्लक्षणन्तु प्रवृत्तिनिवृत्तिभिन्नत्वे सति यत्नत्वं प्राणसञ्चारविषयकयत्नत्वं वा। प्रवृत्तिरिति चेष्टाया रागस्य वा जनकतावच्छेदकतया सिद्धा प्रवृत्तित्वजातिरेवलक्षणम् । निवृत्तिरिति । निवृत्तित्वं द्वष. जन्यतावच्छेदकतया सिद्धो जातिविशेषः। ___ विधासु कारणं प्रदर्शयति आद्य त्यादि। आद्या-जोवनयोनिकृतिः, जीवनादृष्ट जन्येति । जीवनस्य निमिन्नीभूतं यददृष्ट तज्जन्यर्थः। द्वितीया-प्रवृत्तिः, For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127