Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 59
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ५० ] किं शब्दाभिलापस्तदाऽनध्यवसायः' इति । यथास्थाणुत्वव्याफ्यवाकोटरादिमानयमितिविशेषदर्शनेन स्थाणुर्वा नरो वेतिसंशयनिवृत्त्याऽयं स्थाणुरित निश्चयो जन्यते तथात्रापि व्याप्यवत्त्वनिश्चयरूपोन्नायकसत्त्वे व्यापकनिश्चयरूपोन्नेयावश्यम्भावादाह बिशेषादर्शनादिति । व्याप्यवत्त्वनिश्चयासत्त्वइत्यर्थः। 'किमिन्दुः किं पद्मम्' इत्यादौ यथेन्दुत्वाद्यभावभानं तथात्राप्यभावभानमुपगम्यास्यायथार्थमुपपाद्यम् । ननु प्रमाणानुग्राहकस्याहार्यव्याप्यवत्त्वज्ञानजन्याहार्यव्यापकवत्त्वभूमात्मकस्य तर्कस्यापि सत्त्वादयथार्थानुभवस्य चतुविधत्वकथनमसङ्गतमित्याशङ्कां निरचिकीर्षुराहावत्यादि । प्रमाणानुग्राहकत्वसत्त्वेऽप्ययथार्थांनुभवविपर्ययत्वेनोपग्रहसम्भवे तर्कत्वेन पृथग्विभागे गौरवमिति भावः। - स्वप्नत्वानध्यवसायत्वयोरयथार्थानुभवविभाजकत्वं काणादाभिमतं गौरवदोषग्रासादेव नैयायिकैरनादेयमित्याह तत्र नैयायिकमत इति। प्रविष्टाविति। स्वप्नस्य मानसविपर्ययरूपत्वादनध्यवसायस्य च वाह्यमानसोभयविधविपर्ययात्मकत्वादिति भावः तन्मते नैयायिकमते। अयथार्थज्ञानं-अयथार्थांनुभवः ॥ २६ ॥ ॥तकामृतम् ।। सुखं धर्मजन्यम् । दुःखमधर्मजन्यम् । इच्छा इष्टसाधनताज्ञानजन्या। द्वेषोऽनिष्टसाधनताज्ञानजन्यः । कृति स्तृिविधा जीवनयोनियत्नरूपा प्रवृत्तिनिवृत्तिश्च । आद्या जीवनादृष्टजन्या। द्वितीया इच्छाजन्या। तृतीया द्वेषजन्या ॥३०॥ ॥ विवृतिः ॥ क्रमप्राप्तं सुखं निरूपयति सुखमिति। एतल्लक्ष्यनिर्देशपरम् । एवमग्रेऽपि । धर्मजन्यमिति । समवायसम्बन्धावच्छिन्नधर्मत्वावच्चिन्नकारणतानिरूपितकार्यताकमित्यर्थः। तेन धर्मध्वंसादौ नातिव्याप्तिः। वस्तुतस्तु जन्यान्तं स्वरूपकीर्तनमात्रपरं लक्षणन्तु सुखीत्याद्यनुभवसिद्धसुखत्वजातिमत्त्वम् । तेनेश्वरे नित्यसुखस्वीकारपक्षेऽपि न तत्राव्याप्तिः। तन्मते सुखत्त्वस्य नित्यानित्यवृत्तित्वेन कार्यतावच्छेदकत्वासम्भवाज्जन्यसुखत्वस्य धर्मजन्यतावच्छेदकत्वमिति बोध्यम्। यन्तु बलवद्द वेषविषयत्वेनानुभविकस्य दुःखस्याभाव एव सुखमिति । तन्न। भोजनाद्यनन्तरं दुःखाभाववानहमित्यनुव्यवसायानुत्पत्तेः सुख्यमित्यन्नुव्यवसायोत्पत्तेश्च । एतेन सुखस्य ज्ञानविशेषात्मकत्वमित्यपास्तम् । उक्तान्नुव्यवसायविरोधान्न जाने न सन्देहि न निश्चिनोमीत्याद्यनुव्यवसायाच्च । दुःखं निरूपयति दुःखमिति । अधर्मजन्यमिति । अधर्मत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नजनकतानिरूपितजन्यतावदित्यर्थः। तेनाधर्मध्वंसादौ नातिव्याप्तिः। For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127