Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ ४६ ] अदृष्टविशेषस्यैवौवोद्वीधकत्वकल्पनात्। तथाचोत्कटेन कामेन क्रोधेन बोपहतचेता यं विषयमनुभूतो ध्यायन् स्वपिति तस्य तद्वषयकसंस्कारजस्मृत्या तद्विषयकः स्वप्नो जायते। यथा पुराणाद्यर्थश्रावणानुभवजसंस्कारपाटवजनितस्मरणेन किरातार्जुनीयं युद्धमित्याकारकः स्वप्तः । ___ कार्यत्वावच्छिन्नं प्रति अदुष्टन्वेन हेतुत्वेऽप्यदृष्टविशेषणस्वप्नविशेणस्यानुभवसिद्धवादाहादृष्ट नेति। अदृष्टविशेषेणेत्यर्थः। तथाचैतस्मिन् प्राक्तने वा जन्मनि अनुभूते वस्तुनि निद्रादोषोपप्लुतचित्तस्य स्वप्नविशेषौ धर्माधर्माम्यां जन्येते। तत्र कुञ्जरारोइणादिविषयकः स्वप्नो धर्मजः शुभसूचकत्वात् । बराहारोहणादिविषयकः स्वप्नोऽधर्मजाऽशुभसूचकत्वात्। तथाहि ज्योतिःशास्त्रम् ‘आरोहणं गोठ्यकुञ्जराणां प्रासादशैलाग्रवनस्पतीनाम् । आरुह्य नौकां प्रतिगृह्य वणां भुक्त्वा रुदित्वा ध्रु वमर्थलाभः' ॥ इत्यादिशुभावेदकम् । 'बराहक्षंखरोष्ट्राणामारोहो महिषस्य च' इत्याद्यशुभावेदकम् । बातादिधातुदोषाभावे स्वप्नविशेषानुत्पादादाह धातुदोषेणेचेति । धातवः–बातपित्तश्लेष्मानः, तेषां यो दोषः-वेषभ्यं, तेनेत्यर्थः। अतएव चरके 'दोषजं स्वप्नम्' इत्यत्र 'उल्वनवातादिदोषजन्यमिति टोकाकृतः। तत्र बातदोषेणाकाशगमनभूपर्यटनव्याघ्रादिभयपलायनादिविषयकः, पित्तदोषेण हुताशनप्रवेशनतज्ज्वालालिङ्गनहिरण्मयाचलादि विषयकः, श्लेष्मदोषेण च सिन्धुसन्तरणसरिनमज्जनराजताचलादिविषयकः स्वप्नोजन्यते । तथाचानुभूतार्थस्मरणादित्रितयस्य मिलितस्यैव स्वप्नहेतुत्वेऽपि तत्तत्स्वप्नविशेषे स्मरणादेर्मुख्यकारणत्वं सूचयितुमसमासकरणमिति ध्येयम् ।
एवञ्वोपरतवहिरिन्द्रियग्रामे प्रलोने च मनसि लौकिकसन्निकर्षाभावेन चाक्षुषादि. रूपत्वासम्भावात्पूर्वानुभूतार्थस्मरणरूपज्ञानलक्षणासन्निकर्षणजनितो वाधितार्थविषयकोऽलौकिकमानसप्रत्यक्षात्मकः स्वप्नः पर्यवसन्नः। अतएव अन्नम्भट्टाः स्वप्नमयथार्थजातेऽन्तर्भावयामासुः । वल्लभाचार्यैरपि 'सिद्धोपप्लुतान्तःकरणजप्रवाहः स्वप्नः' इत्युक्तम् ।
न च स्वप्नस्यायथार्थञानत्वे कुतः स्वप्नविशेषाद्यथार्थार्थावाप्तिः सङ्गच्छत इति वाच्यं अव्यार्थज्ञानस्यावाधितार्थजनकत्वे वाधकाभावात् । कथमन्यथा रज्जौ सर्पत्वाभूमाद्यथार्थमुर्छादिः । तुरीयं नाध्यवस्यामीत्यनुव्यवसायसिद्धज्ञानत्वलक्षणकमनध्यवसायं निरूपयितुमाहानध्यवसायश्चेति। तद्धविच्छिन्नविषयिताकः केवलतत्तद्विषयिताको वा बोधोऽध्यवसायः, स न भवतीत्यनध्यवसाय इदंत्त्वादिनाsनिहिय्यमानवस्तुविषयकं किमिदमितिज्ञानमितियावदित्याशयेनाह किञ्चिदिति । तदुक्तं बल्लभाचार्यैः-'सामान्यतोऽवगते विशेषतोऽज्ञाते जिज्ञासिते वाच्यविशेषे यदा
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127